________________
आगम
(०५)
प्रत सूत्रांक
[६१७
६४८]
गाथा
दीप
अनुक्रम
[७२१
७५७]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२
शतक [१८], वर्ग [-] अंतर- शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८ ] + गाथा
गेण द्रव्याणां बन्धनम् 'वीससाबंधे 'ति विश्रसा स्वभावतः, 'सादीयवीसस' ति अभ्रादीनां अणादीति धर्मास्तिकायाध मस्तिकायादीनां सिडिलित्ति तृणपूलकादीनां धणियत्ति रथचक्रादीनामिति । एयणेऽवि नाणत्तंति (सु. ६२२) एजने कंपने यदंशादिषु तदपि नानात्वं भेदः अनेजनावस्थापेक्षया, यावत्करणात् वेयणेऽवि णाणत्तमित्यादि द्रष्टव्यं व्येजने इति, अयमभिप्रायो - यथा वाणस्योर्ध्वं क्षिप्तस्यैजनादिकं नानात्वमस्त्येव एवं कर्म्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात् तदनुरूपकार्यकारित्वरूपं नानात्वमत्रसेयं । 'सेयकालंसित्ति (सू. ६२३) एष्यत्काले, ग्रहणानन्तरमित्यर्थः, 'असंखि'ति गृहीत पुद्गलानामसङ्ख्येय भागमाहारीकुर्वन्ति, गृहीतानामेवानन्तभागं निर्जरयन्ति तत उक्तं जिनैः ।। १८ शते तृतीयः ॥ 'असरीरपडिबद्धे'त्ति (सु. ६२४) त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा कलेवर'ति स्थूराकारधराणि, न सूक्ष्माणि, कलेवरा- निर्जीवदेहाः, 'एएणं'ति एतानि प्राणातिपातादीने सामान्येन द्विविधानि न प्रत्येकं तत्र पृथ्वीकायादयो जीवद्रव्याणि, प्राणातिपातादयो न जीवद्रव्याणि, किन्तु तद्धर्म्माः, अजीवद्रव्याणि धर्मास्तिकायादयः, तान्यजीवद्रव्याणि जीवपरिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा कुर्यात् तदा तान् सेवते प्रवृत्तिरूपत्वात् तेषामित्येवं तत्परिभोगः, पृथिव्यादीनां तु परिभोगी गमनशोचनादिभिः प्रती एवं प्राणातिपात विरमगादीनां परिभोगो नास्ति, प्राणातिपात विरतिरूपत्वेन जीवस्वरूपत्वात् तेषां धर्मास्तिकायादीनां चतुर्णाममूर्वत्वेन परमाणोः सूक्ष्मत्वेन शैलेशी प्रतिपन्नानगारस्य च प्रेपणाद्यविषयत्वेनानुपयोगित्वान्न परिभोगः || 'कसायपदं निरवसेसं नि(सू. ६२५) प्रज्ञापनापदं चतुर्द्दशपदं तवेदम्-को हकसाए माणकसाए मायकसाए लोभकसाए इत्यादि, 'निज़रिस्संति लोभेणं' ति अस्यैवं सम्बन्धः-'वैमाणियाणं भंते! कहहिं ठाणेहिं अड्ड कम्मपग
१८ श० ३-४ उ.
~ 192~
| ॥२३९॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः