SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [१८], वर्ग [-] अंतर- शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८ ] + गाथा नास्ति, ततो नारकादिदण्डकचिन्तायां एकेन्द्रियान् वर्जयित्वा शेषः स्यात् प्रथमः स्यादप्रथम इति वाच्यं प्रथम सम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षयात्प्रथमः सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावान्, 'मिच्छादिडी' त्यादि, 'जहा आहारग'ति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमिति, अनादित्वान्मिथ्यादर्शनस्य 'सम्मामिच्छ। दिट्ठी त्यादि, 'जहा सम्मदिट्टित्ति स्वात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्दर्शनलाभापेक्षयेति भावः, 'नवरं जस्सऽत्थि सम्मामिच्छतंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एव प्रथमाप्रथमचिन्तायामधिकर्त्तव्यः संयतद्वारे 'संजय'ति इह जीवपदं मनुष्यपदं च द्वे एव स्तः, तयोश्चैकत्वात् तद्यथा सम्यग्दृष्टिरुक्तस्तथाऽसौ वाच्यः स्यात्प्रथमः स्यादप्रथमः, एतच संयमस्य प्रथमेतरलाभापेक्षया ज्ञेयं, 'अस्संजए जहा आहारए'त्ति अप्रथम इत्यर्थः, असंयतत्वस्यानादित्वात्, 'संजयासंजए'ति संयतासंयतो जीवपदे मनुष्यपदे पञ्चेन्द्रियतिर्यपदे च स्याद् अत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्य स्यात् प्रथमः स्यादप्रथम इत्यर्थः प्रथमाप्रथमत्वं च प्रथमेतरदर्शनलाभापेक्षया 'नोसंजएनोअसंजए' त्ति निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धव स्यात् स प्रथम एवेति । कषायद्वारे 'सकसाय'ति कषायिण आहारवदप्रथमाः, अनादित्वात् कषायित्वस्येति, 'अकसाइ'ति अकपायो जीवः स्यात्प्रथमो यथाख्यातचारित्रलाभे, स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वेकषायत्वस्य प्रथमत्वादिति । ज्ञानद्वारे 'नाणीति जहा सम्मद्दिङ्घित्ति स्यात्प्रथमः स्यादप्रथमः इत्यर्थः, तत्र केवली प्रथमः अन्यथाऽप्रथम इति, नवरं 'जं जस्स अस्थि'ति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यं, 'अन्नाणी 'ति 'जहा आहारए ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभात् । योगद्वारे 'सयोगि'ति ११८ श० १. उद्देशः 186~ ॥२३६॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy