________________
आगम
(०५)
प्रत
सूत्रांक
[४९९
५३८]
गाथा
दीप
अनुक्रम [५९४
६३८]
श्रीभग०
लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२
शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा
अन्यथा रविप्रकाशादेरपि प्रमाणयोजनाऽप्रमेयता स्यात्, तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्तिः प्राप्नोति, आत्माङ्गुलस्यानियतत्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्रययोजनप्रमेयत्वात्तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति यच्चेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्रयाङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते यतस्तस्य योजनस्योपरितनक्रोशस्य पद्मागे सिद्धावगाहना धनुविभागयुक्तत्रयस्त्रिंशदधिकधनुः शतत्रयमानाऽभिहिता, सा चोच्छ्रययोजनाश्रयणत एव युज्यत इति उक्तं च"ईसिंपन्भाराए उबरिं खलु जोयणस्स जो कोसो । कोसस्स य छन्भाए सिद्धाणोगाहणा भणिया ||१||" 'देसूणं जोअणं' ति इह सिद्ध्यलोकयोर्दशोनं योजनमन्तरमुक्तं, आवश्यके तु योजनमेव, तत्र च किञ्चिन्यूनताया अविवक्षणान्न विरोधों मन्तव्य इति । 'दिव्वे 'ति (सु. ५२७) प्रधान: 'सच्चोवाए 'ति सत्यावपातः सफलसेवः 'सन्निहियपाडिहेर'ति सन्निहितं विहितं प्रातिहार्य - प्रतीहारकर्म्म - सान्निध्यं देवेन यस्य स तथा । 'एवं जहा उववाइए जाव आराहगति (सू. ५२८) इह यावत्करणादिदमर्थतो लेशेन दृश्यं, ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात्पुरिमतालपुरं प्रति प्रस्थितानि ततस्तेषामटवी प्रविष्टानां पूर्वमुदकं गृहीतं क्षीणं पीयमानं, ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृहन्तोऽर्हन्नमस्कारपूर्वकं अनशनप्रतिपच्या कालं कृत्वा परलोकं गता ब्रह्मदेवलोकं, परलोकाराधका जाता इति । 'घरसर'त्ति (सू. ५२९) एवं जहे त्यादिना यत्सूचितं तदर्थतो लेशेनैवं दृश्यं गृहशते २ अन्नादि भुङ्क्ते वसति तिष्ठति चेति एतच्च श्रुत्वा गौतम आह-कथमेतत् भदन्त !, ततो वीर उवाच - गौतम ! सत्यमेतत् यतस्तस्य वैक्रियलब्धिरस्ति, ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच- प्रव्रजिष्यत्येव भगवतां समीपे ?, वीर उवाच- नैवं, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोकं गमिष्यति, ततःयुतश्च महाविदेहे
१४ श०. ८ उद्देशः
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~143~