SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभगः लघुवृत्तौ SKYIKKCC “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा कोऽप्यप्रेर्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यलोकमागच्छति, यस्तत्र नागच्छति स न व्यतिव्रजेत्, व्यतिव्रजनेऽपि च न ध्मायते, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाद् गतेरिति, 'एगिंदिया जहा नेरइय'त्ति, कथं १, यतोऽग्निमध्येन विग्रहेऽपि व्यतिव्रजति सूक्ष्मत्वान्न दान्ते, अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्ये व्यतिव्रजन्ति स्थावरत्वात् यच्च तेजोवायूनां गति त्रसतया अग्रिमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् स्थावरत्वे यस्ति कथञ्चित्तेषां मत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेस्य निर्निबन्धनता स्यात् चूर्णिकारः पुनरेवमाह'एगिंदियाण गई नत्थि'ति ते न गच्छन्ति, 'एगे वाउकाइए परपेरणेसु गच्छंतित्ति विराहिअं'ति, 'इडिपत्ता-य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्स'ति अस्त्येककः पञ्चेन्द्रियतिर्यक् यो मनुष्यलोकवर्त्ती स तत्रानिकायसम्भवात्तन्मध्येन व्यतिव्रजेत् यस्तु नरक्षेत्राद्वहिर्नासावनेर्मध्येन व्यतिव्रजेत् तत्राग्यभावात् तदन्यो वा तथाविधसामय्यभावात्, 'नो खलु तत्थ सत्यं'ति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरचि नाम्यादिकं शस्त्रं क्रमत इति । अथ दश स्थानान्यभिधातुमाह-'अणिडा गई 'ति (सू. ५१५) अप्रशस्तविहायोगतिनामकमोंदयसम्पाद्या नरकावस्थानरूपा नरकायुष्यरूपा वा 'लावण्णे'त्ति लावण्यं शरीराकृतिविशेषः, 'जसोकित्ति'त्ति यशः सर्वदिग्गामिप्रसिद्धिः कीर्त्तिरेकदिग्गामिनी ख्यातिः दानफलभूता या 'उडाणे' ति उत्थानं वीर्यविशेषरूपं, सर्वत्र अनिष्टत्वं कुत्सितत्वात्तेषामिति, 'छाणाई'ति पृथ्वीकायिकानामेवे न्द्रियत्वेन प्रागुक्तदशस्थानकमध्ये शब्दरूपगन्धरसानामविषयः, एवं स्पर्शादीन्येव पद ते प्रत्यनुभवन्ति, 'इडा णिङ्कफासं ति सातासातोदयसम्भवात् शुभाशुभ क्षेत्रोत्पत्तिः, यद्यपि तेषां स्थावरत्वात् गमनरूपा गतिर्नास्ति स्वभावतस्तथापि परप्रत्यया सा भवन्ती शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्याद्, अथवा यद्यपि १४ श० ५ उद्देशः ~136~ ॥२११॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy