________________
आगम
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१४], वर्ग H, अंतर्-शतक H, उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा
(०५)
प्रत
श्रीभग
४ उद्दशः
सूत्रांक
लघुवृत्ती
[४९९५३८
गाथा
को भावः-पर्यायो दुःखितत्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, अणेगभूय'ति अनेकभावत्वादेवानेकरूपं परिणामस्वभाव 'परिणमइ'त्ति अतीतकालविषयत्वादस्य परिणतवान्-प्राप्तवानिति, 'अहे से'त्ति अथ तहुःखित्वाद्यनेकभावहेतुभूतं 'वेयणिज्ज'त्ति वेदनीयं कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयत्वादि च निर्माण-क्षीणं स्यात् ततः पश्चात् 'एगभावे'त्ति एको | भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखस्वभावो यस्यासाबेकभावोऽत एवैकभृतः-एकत्वं प्राप्तः 'सिय'ति बभूव, कर्मकृत-18 धर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव, एवं प्रत्युत्पन्नानागतसूत्रे अपीति || 'परमाणुपोग्गले 'ति (सू. ५११) पुद्गलः स्कन्धोऽपि स्यात्, अतः परमाणुग्रहणं 'वण्णपजवेहि ति परि-सामस्त्येनावंति-गच्छन्ति ये ते पर्यवा-विशेषाः धर्मा वा इत्यनर्थान्तरं, ते च वर्णादिभेदादनेकधेत्यतो विशिष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैरशाश्वत:-विनाशी, पर्यवाणां पर्यवत्वेन विनश्वरादिति, (स: ५१२) यः परमाणुर्यस्माद्विवक्षितभावाच्युतस्सन् पुनस्तद्भावं न प्राप्स्यति स तद्भावापेक्षया चरमः 'अचरम'त्ति | एतद्विपरीतस्त्वचरम इति, 'दब्वादेसेणं'त्ति आदेश:-प्रकारः तेन द्रव्यादेशेन-द्रव्यप्रकारेण न चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततध्युतः परमाणुत्वरूपं द्रव्यत्वमवाप्स्यतीति, 'खेत्तादेस'त्ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिचरमः, कथं यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रेः यः परमाणुरवगादोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निविशेषेण क्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य पुनस्तेन लप्स्यमानत्वात् 'कालादेसेण ति स्थात्कथश्चिच्चरमः, कथं ?, यत्र काले पूर्वाह्नादौ केबलिना समुद्घातः कृतस्तत्रैव यः परमाणुः परमाणुतया वृतः स तं कालविशेष के वलिसमुद्घातविशेषितं न कदापि प्राप्स्यति, तस्य केवलिनः सिद्धिगम
दीप अनुक्रम [५९४६३८]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
~1340