SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग० लघुत्त *OKDCCCXXCQJÓL: “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [१४], वर्ग [-] अंतर- शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८ ] + गाथा गरूवं'ति पूर्व च एकवर्णादिपरिणामात्प्रागेव करणेन प्रयोगकरणेन विश्रसाकरणेन वा अनेकवर्ण कालनीलवर्णादिभेदेन अनेकरूपगन्धरसस्पर्शसंस्थानभेदेन परिणामं पर्यायं 'परिणम 'त्ति अतीतकालविषयत्वादय परिणतवानिति द्रष्टव्यम्, पुद्गल इति प्रकृतं स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान् यदि च स्कन्धस्तदा यौगपद्येन, 'अहे से त्ति अथानन्तरं | स एष चानेकवर्णादिपरिणामो निर्जीर्णः क्षीणः स्यात्, परिणामान्तराधायककारणोपनिपातवशात्, तो निर्जरणानन्तरं एकवर्णोऽपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामता पुद्गलद्रव्यस्य प्रतिपादितेति, 'पप्पण्णं'ति विभक्तिपरिणामात् प्रत्युत्पन्ने - वर्तमाने शाश्वते सदैव तस्य भावात् समये - कालमात्रे 'एवं चैव निकरणात् पूर्वसूत्रोक्तमिदं दृश्यम्, 'समयं लुक्खी समयं अलुक्खी लक्खी वा अलुक्खी वेत्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवाद्, अतीतानागतसूत्रयोस्तु अनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति । अनन्तरं पुद्गलस्वरूपमुक्तम्, पुद्गलश्च स्कन्धोऽपि स्वादिति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं दर्शयन्नाह - 'एस णं भंते! खंधे इत्यादि । स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवस्वरूपमाह-'एस णं भंते! जीवेत्ति (सु. ५१०) एप प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखहेतुयोगात् समयं दुःखी सुखहेतुयोगात् समयमेकं सुखी बभूव, समयमेव सुखी दुःखी वा तद्धेतुयोगात्, न पुनरेकदा दुःखसुखवेदनमस्त्येकोपयोगत्वाञ्जीवस्येति, एवंरूपः सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभाव परिणामः स्यादिति पृच्छन्नाह - 'पुवि च णं करणेणं अणेगभावं' ति पूर्वं च एकभावं परिणामात्प्रागेव करणेन - कालस्वभावादिकारणसंवलितया शुभाशुभकर्म्मबन्धहेतुभूतया क्रियया अने CLICKDC040 ~133~ १४ श० ४ उद्देशः पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy