SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [१], वर्ग , अंतर्-शतक H, उद्देशक [१०], मूलं [८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत १ शतके १० उद्दे. सूत्रांक [८१] दीप अनुक्रम [१०२] | यदुक्तं 'कर्म सदा चीयते, अपचीयते चेति तदप्येकान्तशाश्वतत्वे नोपपद्यत इति, यच्चोक्तं 'भाषणात्पूर्व भाषा, तद्धतत्वात् तद| सङ्गतमेव, औपचारिकत्वात् , उपचारस्य तत्वतोऽवस्तुत्वात् , उपचारस्ताचिके वस्तुनि सति भवतीति ताचिकी भाषाऽस्तीति सिद्धं, | यचोक्तं 'भाष्यमाणा अभाषा, वर्तमानसमयखाव्यावहारिकत्वात् तदप्यसम्यक, वर्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वात् , | अतीतानागतयोश्च विनष्टानुत्पन्न तयाऽसत्वेन व्यवहारानङ्गत्वात् , यच्चोतं-'भाषासमयेत्यादि' तदप्यसाधु, भाष्यमाणाया भाषाया अभावे भाषासमय इत्यभिलापस्याभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेयप्रत्ययोत्पादकत्वादिति हेतुः सोऽनेकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः, तथा यदुक्तम्-'अभापकस्य भाषे'ति, तदसङ्गतं, एवं हि सिद्धस्याचेतनस्य च | भाषाप्राप्तिप्रसङ्ग इति, एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सच्चादिति, यचानभ्यासादिकं कारणमुक्तं तच्चानेकान्तिकं, अनभ्यासादावपि यतः काचित् सुखादिरूपैव, तथा यदुक्तं 'अकरणतः किया दुःखेति, तदसम्यक, यतः करणकाल एव क्रिया | दुःखा वा सुखा वा दृश्यते, न पूर्व पत्राद्वा, तदसच्चात् , तथा यदुक्तं 'अकिञ्चमिति, यदृच्छावादिमताश्रयणात्' तदप्यसाधीयः, | यतो यथकरणादेव कर्म दुःखं सुखं वा स्यात् तदा विविधैहलौकिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किंचित् | पारलौकिकानुष्ठानं तैरपि चेत्येतत्सर्व अज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तब्धय पदमसए दसमयमि उद्देसे । | विम्भंगीऽणादेसा मइभेया यावि सा सव्वा ॥१॥ सन्भूयमसम्भूयं भंगा चत्तारि हुति चिन्भंगे । उम्मतवायसरिस तो अनाणति | निद्दिढ ॥२॥" सद्भूते परमाणौ असद्भूतमर्दादि १ असते सर्वगात्मनि सद्भूतं चैतन्य २ सद्भूते परमाणौ सद्भूतं निष्प्रदेशत्वं ३ असद्भूते सर्वगात्मनि असद्भूतमकर्तृत्वमिति ४ 'अहं पुणगोयम त्ति प्रतीतार्थमेव, नवरं दोण्हें परमाणुपोग्गलाणं अस्थि सिणे ~94~
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy