SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती - अगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [१], वर्ग, अंतर्-शतक H, उद्देशक [७], मूलं [६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: 0. प्रत सूत्रांक [६२] श्रीभगवतीसूत्रम् ७ उद्देशः दीप अनुक्रम [८३] |ज से'त्ति, या तस्य गर्भस्य माता 'रसविगईउ'त्ति रसरूपा विकृतीर्दुग्धाद्या रसविकारान् 'तदेगदेसेणं ति तासां-सविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहायति, उच्चारो-विष्ठा, प्रश्रवण-मूत्रं, खेलो-निष्ठीवनं, 'सिंघाणगं'ति नासिकाश्लेष्म | शतके 'केसमंसु'त्ति केशा:-कूर्चरूपाः रोमाणि-कक्षादिकेशाः, जीवेणं ति गर्भगतोजीवः, प्रभुः-समर्थो मुखेन कापलिकमाहारमाहार-INT५॥ |यितुं ?, अत्रोत्तरम्-'नो तिणमडे' नायमर्थः समर्थः,'सव्वओत्ति सर्वात्मना, 'अभिक्रवणं'ति पुनः२ 'आह'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् , ततो मुखेन न प्रभुः-समर्थः कावलिकमाहारमाहर्तुमिति भावः, अथ कथं । सर्वत आहारयति इत्याह-रसो हियते-आदीयते यया सा रसहरणी, नाभिर्नालमित्यर्थः, मातृजीवरसहरणी पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात् , कथमित्याह-मातृजीवप्रतिवद्धा सती सा यतः पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, | तदंशत्वात् , स्पृष्टता च सम्बन्धमात्र अतदंशत्वात् , मात्रजीवरसह पुत्रजीवरस द्वे नाड्यौ स्तः, ततस्तयोबाधा मातृजीवप्रतिबद्धा| पुत्रजीवस्पृष्टा, तस्मान्मातृजीवरसहरण्या प्रतिबद्धया पुत्रजीवस्पर्शनात् आहारयति, 'अवरावित्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवतीति, तसाचिनोति शरीरं, उक्तं च तंत्रान्तरे-"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते। ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥१॥" इति, 'मत्थुलुंगे'ति मस्तकभेजकं, अन्येऽप्याहुः-मेदः, फिप्फसादि मस्तुलुङ्गमिति भावः, 'अद्विमिंज'त्ति अस्थिमध्यावयवः, 'अम्मापिऊणति अम्बापैतृकं, शरीरावयवेषु शरीरोपचारात् , 'केवइ| यति कियत्कालं गर्भ तिष्ठति, 'जावइय'ति यावत्कालं 'से'त्ति तस्य जीवस्य भवधारणीयं-भवधारणप्रयोजनं, मनुष्यादिभ-1 |वोपग्राहकमिति, 'अब्बावणे'त्ति अव्यापन-अविनष्टं, 'अहे गति उपचयान्तिमसमयादनन्तरमेतत् , अम्बापैतृकं शरीरं ~82
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy