SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६०] दीप अनुक्रम [<?] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक[१], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ ६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग वती सूत्रम् JOJOCOCCICCJDEJO क्षाणां च बहूनां भावादाह-'सव्वेऽवि ताव होजा अविग्गहे' त्यादि विकल्पत्रयम्, 'जावे गिंदियवज्जे' त्ति जीवानां निर्विशेषाणां एकेन्द्रियाणां चोक्तयुक्त्या विग्रहगतित्वे तत्प्रतिषेधे च बहुस्वमेवेति न वयं तदन्येषु तु त्रयमेव, 'नियभंगो' त्ति त्रिकरूपो भङ्गत्रिकभङ्गो, भङ्गत्रयमित्यर्थः । गत्यधिकाराच्यवनस्त्रम् 'महड़ि 'ति (सू. ६१ ) महर्द्धिको विमानपरिवाराद्यपेक्षया 'मह जुइ ति महायुतिकः शरीराभरणाद्यपेक्षया 'महाणुभावे' त्ति महानुभावो विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः, 'अविउकति व्युत्क्रान्तिः उत्पत्तिस्तनिषेधाद व्युत्क्रान्तिकं, अथवा व्यवक्रान्तिः - मरणं तन्निषेधादव्यवक्रान्तिकम्, तद् यथा स्यादेवं च च्यवमानो जीवचैव मृतिकाले इति, चयं वपुः 'चयमाणेत्ति त्यजन् किञ्चित्कालं 'हिरि'त्ति हीप्रत्ययं लज्जानिमित्तं स हि च्यवनसमयेन प्रक्रान्त एव नरपरिभुज्यमानस्त्रीगर्भाशयरूपं उत्पत्तिस्थानं दृष्ट्वा जिहेति, हिया च नाहारयति, 'दुगुंछावत्तियं'ति जुगुप्साप्रत्ययं कुत्सानिमित्तं शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्, 'परी सह' त्ति परी पहशब्देन अरतिपरीपहो ग्राह्यः, तन्निमित्तं, दृश्यतेऽरतिप्रत्ययाल्लोकेऽप्याहारे वैमुख्यं स्यादिति, 'अहेणं'त्ति अथ लज्जादिक्षणानन्तरं आहारयति, बुभुक्षावेदनीयस्य चिरं सोढुमशक्यत्वात्, 'आहारिज' त्ति क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाहारस्याल्पतोक्ता, 'पहीणे'त्ति प्रक्षीणमायुः स्यात्, 'जत्थ'त्ति यत्र मनुजत्वादौ 'तमाउ'ति तन्मनुजत्वाचायुः प्रतिसंवेदयति- अनुभवतीति, देवनारकायुर्निषेधात्तिर्यग्मनुजायुर्युग्मं गृह्यते 'गर्भ वक्कमिति(सू. ६२ ) गर्भं व्युत्क्रामन्- गर्भे उत्पद्यमानः 'दव्विंदिय'त्ति निर्वृत्युपकरणलक्षणानि, तानि हि इन्द्रियपर्याप्तौ स्युरित्यनिन्द्रिय उच्यते, 'भाविंदिय'त्ति लब्ध्युपयोगलक्षणानि तानि संसारिणां सर्वावस्थाभावीनीति, 'तप्पढमति तस्य - गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया, मातुरोजो जनन्या आर्त्तवं शोणितमिति पितुः शुक्रं, तदुभयं संश्लिष्टं ~81~ १ शतके ७उद्देशः |||३४||
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy