SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८] दीप अनुक्रम [४५] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक[१], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [३८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभगवती सूत्रम Cic न्द्रियनिमित्तसामान्यार्थावबोधो दर्शनं, तदा किमेकश्चक्षुर्दर्शनं, अन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद्भेदः तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युः, न द्वे एवेति, अत्र समाधिः- सामान्यविशेषात्मकत्वात् वस्तुनः क्वचिद्विशेषतः क्वचिच्च सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतः, अचक्षुदर्शनमिति सामान्यतः यच्च प्रकारान्तरतोऽपि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनसस्तत्व प्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात् तद्दर्शनस्याचक्षुर्दर्शनस्याच्चक्षुर्दर्शनशब्देन ग्रहणं, अथवा दर्शनं सम्यक्त्वं तत्र शङ्का- 'मिच्छतं जमुदिष्णं तं खीणं अणुदियं च उवसंत' मिति क्षायोपशमिकलक्षणं, औपशमिकलक्षणमप्येवं यदाह - "खीणंमि उड़णंमी अणुदिजंते य सेसमिच्छते । अंतोमुहुत्तमित्तं उवसमसम्मं लहइ जीवो || १ ||" ततोऽनयोः को विशेष उक्तः १, अत्र समाधिश्व क्षयोपशमे हि उदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च- "वेएड संतकम्मं खओवसमिएस नाणुभावं से उवसंतकसाओ उण वेदेह न संतकम्मैति ॥ १॥" 'चरितं 'ति तत्र चारित्रं द्विधा- सामायिकं छेदोपस्थापनीयं च तत्र प्रथमं सर्वसावद्यविरतिरूपं ततूदयोऽ ( ० पत्रतादिरूपम) न्यदपि तलक्षणमेव, तत्कोऽनयोभेदः इति शङ्का, अत्र समाधिः - ऋजुवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक सामायिकाशुद्धावपि व्रताखण्डनाञ्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नथारित्रं, चारित्रस्य सामायिकमात्रत्वादित्यनाश्वासस्तेषां स्यादिति, आह- "रिउवंकजडा पुरिमेयराण सामाइए वयारुहणं । मणयमसु| द्वेऽवि जओ सामइए हुंति हुबयाई ॥ १॥" लिङ्गं साधुवेषः, तत्र मध्यमजिनैर्यथालब्धवत्ररूपं लिङ्गं साधूनामुक्तं, तदा किमिति प्रथम ~55~ १ शतके ३ उद्देशः ॥२१॥
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy