________________
आगम
(०५)
प्रत
सूत्रांक
[२४-२७]
+
गाथा
दीप
अनुक्रम [३१-३४]
भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [२४-२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग
बती
सूत्रम्
SPEC
गुणविराधनेति, सौधर्मोत्पादश्च मूल गुणविराधनायां स्यात्, यदि पुनविराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा चकुशादीनामपि उत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् १, कथञ्चिद्विराधकत्वात् तेषां तेनोत्तरगुणविराधनाया ईशानोत्पादो युक्त एव, असन्नीणं जहन्नेणं भवणवासिसु, उक्कोसेणं वाणमंतरेसु'त्ति, इह यद्यपि 'चमरबलि सारमहिय' मित्यादिवचनादसुरादयो महर्द्धिकाः, 'पलिओचम मुकोसं वंतरियाणं' ति वचनाच्च व्यन्तरा अल्पर्द्धिकाः, तथाऽप्यत एव वचनादवसीयते - सन्ति व्यन्त| रेभ्यः सकाशादल्पर्द्धयो भवनपतिदेवाः । असंज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुन्निरूपयन्नाह - 'कड़ विहे गं'ति, 'असपिण' त्ति (सू०२७) असंज्ञी सन् यत् परभवप्रायोग्यं कर्म बनाति तद संज्ञ्यायुः, 'नेरइयअसणियाउए 'त्ति नैरयिक प्रायोग्यमसंश्यायुनैरयिकासंज्ञ्यायुः, एवमन्यान्यपि । एतच्चासंज्ञ्यायुः सम्बन्धमात्रेणापि स्यात् यथा मिक्षोः पात्रमिति, 'दसवास'त्ति १० वर्षसहस्राणि रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पालिओवमस्स असंखिजड़भागं ति, रत्नप्रभा ४ प्रस्तटे मध्यस्थितिकं नारकमाश्रित्य कथं १ यतः - प्रथमप्रस्तटे १० वर्षसहस्रा जघन्या, उत्कृष्टा तु नवतिसहस्राणि २ प्र० १० लक्षाणि जघन्या उ० ९० लक्षाणि स्थितिः, एषैव ३ प्र२ जघन्या उ० पूर्वकोटी, एषैव ४ प्र० ज० इतरा तु सागरोपमस्य १० भागः, एवं | पल्योपमासङ्ख्येयभागो मध्यमा स्थितिरत्र स्यात्, 'तिरिक्खजोणि'त्ति तिर्यसूत्रे यदुक्तं 'पलिओवमस्स' त्ति तन्मिथुन कतिरश्वोऽधिकृत्येति, 'मणुस्सा उए' त्ति जघन्या अन्तर्मुहूतं, उत्कर्षतः पल्योपमासङ्ख्येयभागो मिथुनकनरानाश्रित्य, 'देवा जहा णेर०' यथा असंज्ञिविषयं नारकायुः तच्च प्रतीतमेवं देवविषयं तदपि भवनपतिव्यन्तरानाश्रित्यावसेयं, 'एयस्स णं भंते!' इत्यादिना यदसंज्ञ्यायुषोऽल्पबहुत्वमुक्तं तदस्य असङ्ख्यातायुषः असङ्ख्यात भेदत्वात् हस्वदीर्घत्वमाश्रित्य ज्ञेयमिति ।।
~50~
१ शतके २ उद्देशः