________________
आगम
(०५)
प्रत
सूत्रांक
[१५-१७]
दीप
अनुक्रम [२०-२२]
***
भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [१] मूलं [१५-१७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग
बती
सूत्रम्
जीवस्थानस्य दंडकाः ३ वाच्याः, यथा औधिकदंडकस्तथैतेऽपि, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात् तचैवंतेउलेस्सा णं भंते! जीवा किं आया ०१ ४, गोयमा ! अत्थेगइया आयारंभावि जाव नो अणारंभा ४, अत्थेगइया नो आयारंभा जाव अणारंभा ४, से केणद्वेणं ०१, गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहा- संजया य असंजया य' इत्यादि । अथ भवाभावहेतुकं ज्ञानादिधर्मकदम्बमाह
इहभविपत्ति (०१८ )
इह भवे- वर्तमानजन्मनि यद्वर्तते तदैहभविकं ज्ञानं एवं परभवेऽनंतरमनुगामितया यद्वर्तते तत्पारभविकं ज्ञानं, 'तदुभय'त्ति इहपरलक्षणयोर्भवयोर्यदनुगामितया स्यात्तत्तदुभयभविकं ज्ञानमिति प्रश्नः, 'इहभविए'त्ति उत्तरं तथैव, 'दंसणंपि एवमेव त्ति दर्शनं सम्यक्त्वमवसेयं, मोक्षाधिकारात्, चरित्रसूत्रं व्यक्तं तत्र विशेषः पुनरयं चारित्रमैहभविकमेव, नहि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री स्यात्, यावज्जीवावधिकत्वात्तस्य, अनुष्ठानरूपत्वाच्च चारित्रस्य शरीराभावे तद्योगात्, अत एवोच्यते'सिद्धे नो चरिती नो अचरिती' नो अचरितीति अविरतेरभावादिति, एवं तपस्संयमावपि वाच्यौ, चारित्ररूपत्वात्तयोरिति ।
असंबुडे णं (सू० १९ )
असंवृतोऽनगारः - अविद्यमानगृहः, साधुरित्यर्थः, सिज्झइत्ति सिध्यति सिद्धियोग्यः स्यात् 'बुज्झइ'ति उत्पन्न केवलज्ञानतया सर्वजीवादिपदार्थान् जानाति, त(य)दाऽर्थान् जानाति तदा बुध्यते इत्युच्यते, 'मुच्चइति स एव केवली कर्मभिः प्रतिसमयं विभुच्यमानो मुच्यते इति भण्यते, 'परिनिब्वाइ'ति स एव यथा यथा समयं समयं कर्मक्षयमाप्नुयात् तथा तथा शीतीभवन् परि
असंवृत अनगारस्य गति: संबंधे स्पष्टिकरणम्
~35~
१ शतके १ उद्देशः
॥११॥