SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१] दीप अनुक्रम [૨૪] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक[१], वर्ग [-] अंतर् शतक [-] उद्देशक [१] मूलं [१९] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग बती सूत्रम् निर्वातीति प्रोच्यते स एव आयुरन्त्यसमये सर्वदुःखानामन्तं कुर्यादिति प्रश्नः, उत्तरं च कण्ठ्यं, 'नो इणडे समठ्ठे 'ति नायमर्थः समर्थो बलवान्. 'आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकदेवान्तर्मुहूर्तमात्रकाले एवायुषो बन्धः तत उक्तमायुर्वर्खा इति, 'सिढिलबंधणबद्धाओ' त्ति श्लथबन्धनं स्पृष्टता वा वद्धता वा निघत्तता वा तेन बद्धाः - आत्मप्रदेशेषु सम्बन्धिताः पूर्वावस्थायाम (संवृतत्वाद) शुभतरपरिणामस्य च कथंचिदभावादिति शिथिलबंधनबद्धाः, एताश्र शुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दात्रस्तावात्, ताः किमित्याह-'धणियबंधणबद्धाओ' त्ति गाढतरबंधना बद्धावस्था वा निघत्तावस्था वा निकाचितावस्था वा प्रकरोतिकर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबंधहेतुत्वाद्, आह च - "जोगा पयडिपएसं "ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा 'हस्सकाल'त्ति हवकालस्थितिकाः दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः- उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबंधहेतुत्वाद्, आह च- “ठिहमणुभागं कसायओ कुणइ"त्ति, तथा 'मंदाणुभावे त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबंधस्य च कषायप्रत्ययत्वादिति, 'अप्पपए से' त्यादि, अल्पं- स्तोकं प्रदेशाध्रंकर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबंधस्यापि योगप्रत्ययत्वादसंवृतस्य च योगरूपत्वादिति, 'आउयं चे 'त्यादि, आयुः पुनः कर्म स्यात् कदाचिद् बध्नाति स्यात् कदाचित् न बध्नाति यस्मात् त्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति इति, तेन यदा त्रिभागादिः तदा बध्नाति अन्यदा न बनातीति, तथा 'असायेत्यादि, असातावेदनीयं च दुःखवेदनीयं कर्म पुनर्भूयो भूय उपचिनोति - उपचितं करोति, ननु कर्मसप्तकान्तर्वर्त्तित्वादसात वेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपच ~36~ {D(S)(C) १ शतके १ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy