________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [१], वर्ग B, अंतर्-शतक H. उद्देशक [१], मूलं [१५-१७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक
शतके उद्देशः
[१५-१७]
दीप अनुक्रम [२०-२३]
|मलोकावृतत्वात् तदन्यासु तिसृषु दिक्षु पुद्गलग्रहणं स्यात्,एवमुपरितनकोणेऽपि पुद्गलग्रहणं वाच्यं, यदाऽध उपरिवाऽलोको न स्याचदा चतसृषु, यदा पूर्वादीनां षण्णां दिशामन्यतरस्यामलोकः स्यात् तदा पश्चखपि, 'सेस'ति शेषं भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकादीनामपि, तच्चेदं-'जाई भंते! लुक्खाई आहारेंति ताई किं पुडाई अपुष्टाई ओगाढाई अणोगाढाई' इत्यादि, 'नाणत्त'ति नानात्वं-भेदः पृथिव्यादीनां नारकापेक्षयाऽऽहारं प्रतीद-कतिभागमाहारेति इति, एवं फासाईति आहारपुद्गलान् स्पर्शयन्ति, स्पर्शनेन्द्रियेण आहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, 'सेसं जह'त्ति, तचैव-'पुढविकाइयाणं भंते ! पुब्बाहारिया पोग्गला परिणया' इत्यादि प्राग्बद्वयाख्येयं, पृथ्वीवदप्तेजोवायूनां स्वरूपं ज्ञेयं, नवरं 'ठिईत्ति (१६ मू.)'जा जस्स'चि जघन्यमन्तर्मुहूर्त सर्वेषां उत्कृष्टं तु त्रयाणां अपां सप्त वर्ष सहस्राणि, तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि जाव वणस्सइत्ति वनस्पतीनां दश, इत्युक्ता पृथिव्या| दिपञ्चकस्थितिः 'दियाणं'ति द्वीन्द्रियाणां द्वादशवर्षाणि, द्वीन्द्रियाहारसूत्रं चैव तत्थ 'ति तस्यायमर्थः-असंख्यातसामयिक आहा|रकाल: स्यात् , स चावसार्पण्यादिरूपोऽप्यस्ति अत उच्यते-आन्तमौहर्तिकः, तत्रापि विमात्रया अंतर्मुहूर्तसमयासंख्यातत्वस्यासंख्येयभेदत्वादिति 'बंदियाणं दुविहे'त्ति लोमाहारओघतो वर्षादिषु यः पुद्गलप्रवेशः, प्रक्षेपाहारस्तु कावलिका, तत्र प्रक्षेपाहारे बहवः अस्पृष्टा । एव शरीरादन्तर्बहिश्च विध्वंसन्ते, स्थौल्यसौक्ष्माभ्यां, अत एव आह-जे पोग्गले पक्खेवाहारत्ति, 'असंखिजभागति, असंख्यातभागं 'अणेगाईति असंख्येयभागाः अणासाईति रसनेन्द्रियत: अफासाइंति स्पर्शनेन्द्रियता, सम्बत्थोवत्ति सर्वस्तोकाः, अनाखाद्यमानानां अस्पृश्यमानानां चानंतभागवर्तिनो रसनेन्द्रियविषया इति,ये त्वस्पृश्यमानास्तेऽनन्तगुणाः रसनेन्द्रियविषयेभ्यः सकाशात्, 'तेदियत्ति त्रिचतुरिन्द्रिययोः स्थितिः एकोनपश्चाशन दिनानि षण्मासाथ, तथाऽऽहारेऽपि नानात्वं अणाघाइंति अनाघ्रायमाणानि, अत्रैतदतिरिक्तं
~32~