________________
आगम
(०५)
प्रत
सूत्रांक
[३५२
३५९]
गाथा:
दीप अनुक्रम [४३०
४३७]
भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [८], वर्ग [-] अंतर- शतक [] उद्देशक [१०], मूलं [३५२-३५९ ] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग०
लघुवृत्तौ
CICCHİCİCİCİLİGİCİCİCİ
(सू. ३५७) एकैकस्य जीवस्य तावन्तः प्रदेशाः यावन्तो लोकाकाशस्य, कथं ?, यमाजीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठते तस्माल्लोकाशप्रमाणास्ते इति, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्ते परिच्छेदा:-अंशास्त एव सविभागा अपि स्युः अतः अविभागात्र पलिच्छेदाश्चते अविभागपलिच्छेदाः, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीय कर्म्मणोऽनन्ताः, कथं ?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागभेदानावृणोति तावन्त एव तस्याविभागपलिच्छेदाः, दलिकापेक्षया वा अनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिं'ति तत्परमाणुभिः 'आवेदियपरिवेढिय'त्ति आवेष्टितपरिवेष्टितः - अत्यन्तवेष्टितः आवेष्टि (ष्ट्य) परिवेष्टितो वा, 'सिय नो आवेदिय त्ति केवलिनं प्रतीत्य, तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीया विभागपरिच्छेदेरावेष्टन परिवेष्टनाभावादिति, 'मणूसंस्स जहा जीवस्स'ति (सु. ३५८) 'सिय आवेढिय'त्ति वाच्यमित्यर्थः, मनुष्यापेक्षया आवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं वेदनीयायुष्कनामगोत्रेषु पुनजीवपदे इव भजना वाच्या, सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावात्, अत आह- 'नवरं वेयणिजस्से' त्यादि, अथ ज्ञानावरणं शेषैः सह चिन्त्यते- 'जस्स ण' मित्यादि, 'जस्स पुण वैयणिज्जं तस्स नाणाव० सिय अस्थि सिय नत्थि'त्ति अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं, न ज्ञानावरणमिति, जस्स नाणा० तस्स मोहणिज्जं सिय अस्थि सिय नत्थि'त्ति अक्षपकं क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोक्षये यावत्केवलं नोत्पद्यते तावत् ज्ञानावरणीयमस्ति, न तु मोहनोयं, एवं यथा ज्ञानावरणीयं वेदनीयेन सहाधीतं तथाऽऽयुर्नामगोत्रत्रयेण सहाध्येयं, उक्तप्रकारभजना सर्वेषु भाव्या, अन्तरायेण समं ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणीयं, निर्भजनमित्यर्थः, 'नियमा परुप्परं
अत्र शतक-८, उद्देशक : १० एव वर्तते, मूल संपादने यत् उद्देशक : ९ मुद्रितं तत् मुद्रणदोषः अस्ि
~313~
शतके ९ उद्देशः
॥ १५०॥