SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती - अगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग . अंतर्-शतक, उद्देशक [१०], मूलं [३५२-३५९] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत सूत्रांक [३५२३५९] श्रीभग शतके ९ उद्देश: गाथा: दीप अनुक्रम [४३०४३७] बहुत्वाभ्यां विकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एव इति प्रश्नः, उत्तरं तु स्थात् द्रव्य, द्रव्यान्तरासम्बन्धे सति, स्याद् | | द्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तु निषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति । 'दो| भंते'त्ति इहाष्टसु भङ्गेषु मध्ये आधाः पश्च स्युः,न शेषाः, तत्र द्वौ प्रदेशौ द्रव्यं कथं ?, यदा तौ द्विकप्रदेशिकस्कन्धतया परिणतौ। | तदा द्रव्यं १, यदा तु दूधणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसवन्धप्राप्तौ तदा द्रव्यदेशः २, यदा तु द्वावपि तौ भेदेन स्थितो | | तदा द्रव्यौ ३, यदा तु तावेव द्वथणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धप्राप्तौ तदा द्रव्यदेशौ ४, यदा तयोरेका केवलतया स्थिती द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च देशश्च ५, शेषभेदानां निषेधोऽसम्भवादिति । 'तिन्नि भंते'त्ति त्रिषु प्रदेशेष्वष्टमभेदवर्जाः सप्त विकल्पाः, तथाहि-यथा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १ यदा ते त्रिप्रदेशिकस्कन्धपरिणता एव द्रव्यान्तरसम्बन्धप्राप्तास्तदा द्रव्यदेशः २ यदा ते त्रयोऽपि भेदेन स्थिताः द्वौ वा दूधणुकीभूतावेकस्तु केवल एव स्थितस्तदा | 'दब्वाईति ३ यदा ते त्रयोऽपि स्कन्धतामागता एव द्वौ वा द्वयणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण सम्बद्धास्तदा |'दव्वदेसा यत्ति ४, यदा तु तेषां द्वौ द्वथणुकतया परिणतावेकश्च द्रव्यान्तरेण सम्बद्धः, अथवा एकः केवल एव स्थितो द्वौ द्वथणु| कतया परिणम्य द्रव्यान्तरेण सम्बद्धौ तदा दव्यं च दबदेसे यत्ति, यदा तेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेण सम्बद्धौ तदा 'दव्वं च दबदेसा यत्ति ६, यदा द्वौ भेदेन स्थितौ एकश्च द्रव्यान्तरेण सम्बद्धः तदा दवाई दबदेसे य'चि ७, अष्टमविकल्पो न स्यात् , उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेशचतुष्टयादौ तु अष्टमोऽपि सम्भवति, उभयत्र बहुवचनसद्भावादिति ।। 'असंखेजति (स. ३५६) यस्मादसङ्ख्येयप्रदेशको लोकस्तसात् तत्प्रदेशा असलपेया एवेति ।। 'एगमेगस्स'त्ति अत्र शतक-८, उद्देशक : १० एव वर्तते, मूल संपादने यत् उद्देशक : ९ मुद्रितं तत् मुद्रणदोष: अस्ति ~312~
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy