________________
आगम
(०५)
भाग-1 "भगवती"- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१
शतक[८], वर्ग, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३३१३४३]
उद्देशः
गाथा:
दीप अनुक्रम [४०५४२१]
न बद्धवान् अधुना लब्धमिति बध्नाति पुनरेष्यत्काले उपशान्तमोहा(घ)वस्थायां मत्स्यतीति ५ षष्ठश्च क्षीणमोहत्वादि न लब्धवान् इति न प्राग् बद्धवान् अधुना तु क्षीणमोहत्वं लब्धमिति बनाति शैलेश्यवस्थायां पुनर्न भत्स्यतीति ६ सप्तमः पुनर्भव्यस्य, स हि अनादिकाले न बद्धवान् , अधुनाऽपि कश्चिन्न बध्नाति, कालान्तरे तु भत्स्यतीति ७, अष्टमोऽभव्यस्य ८, स प्रतीत एव । 'गहणागरिसे पडुच'त्ति एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षः तं प्रतीत्य अस्त्येकः कश्चित् जीवः प्रथमवैकल्पिकः, तथाहि-उपशान्तमोहादिर्यदा ऐर्यापथिकं कर्म बद्धा बन्नाति, तदा अतीतसमयापेक्षया बद्धवान वर्तमानसमयापेक्षया च बभाति अनागतसमयापेक्षया च भत्स्यतीति १ द्वितीयस्तु केवली, सह्यतीतकाले बद्धवान् वर्तमाने च बनाति शैले|श्यवस्थायां पुनर्न भत्स्यतीति २ तृतीयस्तु उपशान्तमोहत्त्वे बद्धवान् (पतितो न बध्नाति पुनस्तत्रैव भवे उपशमश्रेणिं प्रतिपद्य भंस्थ-।
तीति ३, एकभवे चोपशमश्रेणी द्विः प्राप्यत एवेति, तुर्यस्तु स सयोगित्वे बद्धवान् शैलेश्यवस्थायां न बनाति न मंत्स्यतीति ४, | पञ्चमस्तु आयुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अधुना तु. लब्धमिति बध्नाति तदद्धाया एव चैष्यत्समयेषु,
पुनर्भन्तस्यतीति ५, न लब्धमिति न बद्धवान् , तल्लाभसमये च वनाति, ततोऽनन्तरसमयेषु च भन्त्स्यत्येव, न तु न भन्स्यतीति | वाच्यम् , समयमात्रख बन्धस्येहाभावात् , यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथकर्मवन्धः समयमात्रः स्या। नासौ
षष्ठविकल्पहेतुः, तदनन्तर्यापथकर्मबन्धाभावस्य भवान्तरवर्तित्वात् , ग्रहणाकर्षस्येह च प्रक्रान्तत्वात् , यदि पुनः सयोगिचरमसमये मानाति, ततोऽनन्तरं न भन्त्स्यतीति विवक्ष्येत तदा यत् सयोगिचरमसमये बनातीति तद्वन्धपूर्वकमेव स्यात् , नाबन्धपूर्वकं, तत्पू-1
समयेषु तस्य बन्धकत्वाद, एवं च द्वितीयभङ्ग एव स्यात्, न पुनः षष्ठ इति ६, सप्तमो भव्यविशेषस्य७,अष्टमस्त्वभव्यस्येति८,
~284~