SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३३१ 383] गाथा: दीप अनुक्रम [४०५ २१] भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [ ६-८ ], मूलं [ ३३१-३४३] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग० लघुवृत्तौ परिणामियं पमाणं निच्छयमवलंयमाणाणं || १||" यच्चोच्यते- 'संथरणम्मि असुद्ध 'ति, अशुद्धं द्वयोरपि दातृगृहीत्रोर हितायेति तद् ग्राहकस्य व्यवहारतः संयम विराधना (त्) दायकस्य च लुब्धकदृष्टान्तभावितश्वेन वा ददतः शुभाल्पायुष्कता निमित्तत्वात् शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कता निमित्तत्वं च अप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राकू चर्चितं यत् पुनरिह तत्त्वं तत् केव लिगम्यमिति । तृतीयसूत्रे 'अ संजये' त्यादिना अगुणवान् पात्र विशेष उक्तः, 'फासुरण अकासुरण'त्ति प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्वोक्तः, असंयमोपष्टम्भस्योभयत्र तुल्यत्वात् यच प्रासुकादौ जीवघाताभावेन अप्रासुकादौ जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराऽभावस्यैव विवक्षितत्वादिति सूत्रत्रयेणापि चानेन मोक्षार्थमेव दानं यत् तच्चिन्तितं यत्पुनरनुकम्पादानं औचित्यदानं च न ते चिन्तिते, निर्जरायास्तत्रानपेक्षणीयत्वात्, अनुकम्पौचित्ययोरपेक्षणीयत्वाच्चेति, उक्तं च- "मोक्खत्थं जं दाणं तं पर एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं || १ ||ति || दानाधिकारादेवेदमाह - 'निग्गंत्थे गाहावइकुलं' ति(सु. ३३२) गृहपतिकुलं - गृहिगृह 'पिंडवाय'त्ति पिण्डस्य भोजनस्य पातः - पात्रे ग्रहः पात्रे गृहस्थानिपतनं तत्र प्रतिज्ञानं पिण्डपातप्रतिज्ञा तथा पिण्डस्य पातो मम पात्रे भवत्विति बुद्धिरित्यर्थः, 'उवनिमंतिज' त्ति उपनिमन्त्रयेत्, मिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, 'से य'त्ति स साधुस्तं पिण्डं 'थेरा यं से त्ति स्थविराश्च तस्य अनुगवेषयितव्याः स्युरिति, 'दावए'ति दद्याद् दापयेद्वा अदत्तादानप्रसङ्गात्, गृहिणा विवक्षितस्थविरेभ्य एव पिण्डो दत्तो, नान्यस्मै, एकान्ते -जनरहिते 'अणावाए' अनापाते जनसम्पातरहिते । निग्गंथेण ये' त्यादि (म्र. ३३३) स्थविरनिर्ग्रन्थं कश्चित्पिण्डपातप्रतिज्ञया प्रविष्टमुपनिमन्त्रयेत्, तेन निर्ग्रन्थेन 'अ किच्चठाणे' त्ति अकृत्यस्थानं मूलगुणविपरीतो कार्य ~274~ शतके ६ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy