________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [८], वर्ग B, अंतर्-शतक , उद्देशक [२], मूलं [३१५-३२२] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३१५३२२]
गाथा:
दीप अनुक्रम [३८८३९६]
प्रवीण्यज्ञानानि भजनया, सामाइय'ति सामायिकचारित्रलब्धिका ज्ञानिन एव, तेषां च केवलवर्जानि चत्वारि ज्ञानानि भजनया, ८ शतके
सामायिकचारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धत्वेन वा, ये चज्ञानिनस्तेषां उद्देशः
त्रीण्यज्ञानानि भजनया, एवं छेदोपस्थापनीयादिष्वपि वाच्यं, एतदेवाह-एवं'ति तत्र छेदोपस्थापनीयादिचारित्रत्रयलब्धयो ज्ञानिन Hएव, तेषां चाद्यानि चत्वारि ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति ।
अतस्तदर्शनायाह-'नवरमहक्वाय'नि सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छाखेतरभावेन पञ्चापि भजनया स्युरिति तेषां तथैव तान्युक्तानि, 'चरित्ताचरित्त'त्ति 'तस्स अलद्धि'त्ति। चारित्राचरित्रालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, 'दाणलद्धि'त्ति दानान्तरायक्षयक्षयोपशमाद् दाने दातव्ये लब्धियेषां ते दानलब्धिकाः, ते ज्ञानिनोऽज्ञानिनश्च, तत्र ये ज्ञानिनस्तेषां | पञ्च ज्ञानानि भजनया, केवलिनामपि दानलब्धियुक्तत्वात , ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, दानालब्धिकास्सिद्धास्ते दाना-| न्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासचात् दानप्रयोजनाभावाच्च दानालब्धय उक्ताः, ते च नियमात् केवलज्ञानिन इति, 'एवं ति लाभभोगोपभोगवीर्यलब्धय एवं ज्ञेयाः, तदलब्धयः सिद्धानामेवोकन्यायादवलेयाः, ननु दानाद्यन्तरायक्षयात् केवलिनां दानादयः कमान्न स्युः१, उच्यते, प्रयोजनाभावात् , कृतकृत्यास्ते भगवन्तः, 'बालबीरिय'त्ति बालवीयलब्धयोऽसंयताः तेषां। ज्ञानिनां त्रीणि ज्ञानानि, अज्ञानिनां च त्रीण्यज्ञानानि भजनया, तदलब्धिकास्तु संयतासंयताः संयताच ते च ज्ञानिन एव, तेषां पश्च ज्ञानानि भजनया, 'पंडियबीरिय'ति 'तस्त अलद्धिति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाचं
१२२॥
~257