SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१ शतक [८], वर्ग B, अंतर्-शतक , उद्देशक [२], मूलं [३१५-३२२] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: वृत्ता मनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि स्युः, ये त्वज्ञानिनस्तेषामाद्यमज्ञानद्वयं तत्रयं वा स्याद् , एवं भजना दशतके |अबसेयेति । 'अबाणलद्धियाणं'ति अज्ञानलब्धिका अज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीण्यज्ञानानि वा, अज्ञा-IIR उद्देश नालब्धिकास्तु ज्ञानिनः, तेषां च पश्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, जहा अन्नाणे' त्यादि, यथा अज्ञानलब्धिकानां |त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथा अज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानि, विभङ्गज्ञानलब्धिकानां त्रीण्यज्ञानानि नियमात , तदलब्धिकानां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति। 'दसणलद्धि'त्ति दर्शनलब्धिकाः, श्रद्धानमात्रलब्धिका इत्यर्थः, ते च सम्यक्श्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पश्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि | |भजनयैवेति,'तस्ल अलद्धिया नत्यि'त्ति तस्य-दर्शनस्य येषामलब्धिस्ते न संत्येव, सर्वजीवानां रुचिमात्र स्वास्तित्वादिति, सम्मपासणलद्धि'त्ति सम्यग्दर्शनलब्धिकानां 'तस्स अलद्धि'त्ति तस्थालब्धिकानां सम्यग्दर्शनस्थालब्धिमतां मिथ्यादृष्टीना मिश्र-II दृष्टीनां च त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव, ताचिकसदोधाहेतुत्वान्मिश्रस्येति, 'मिच्छादसणलद्धि'त्ति मिथ्यादृशां,'तस्स अलद्धिति तस्यालब्धिकानां मिथ्यादर्शनालब्धिमतां सम्यग्दृशां मिश्रदृष्टीनां चक्रमात् पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति, 'चरित्तलद्धि'त्ति चरित्रलब्धिका ज्ञानिन एव, तेषां पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री, चरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनापर्यववर्जानि चत्वारि ज्ञानानि भजनया स्युः, कथं , असंयतत्वे आयं ज्ञानद्वयं तत्रयं । वा, सिद्धत्वे च केवलज्ञान, सिद्धानामपि चारित्रलम्धिशून्यत्वाद् , यतस्ते 'नो चारित्रिणो नो अचारित्रिण' इति, ये त्वज्ञानिनस्तेषां। ~256~
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy