________________
आगम
(०५)
प्रत
सूत्रांक
[३१५
३२२]
गाथा:
दीप
अनुक्रम [३८८
३९६]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [ ३९५-३२२] + गाथा:
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभगः लघुवृचौ
CHICPCJIGJICILJIC
णीतः प्रच्यवमानस्येति, 'अहक्खायचरित 'न्ति यथा-येन प्रकारेणाख्यातं - अभिहितं अकषायतयेति तथैव यत् तत् यथाख्यातं, तदपि द्विधा-उपशमक्षपकश्रेणिभेदात्, शेषं तथैव, 'चरिताचरिते'त्ति 'एगागारा' मूलोत्तरगुणादीनां तद्भेदानामविवक्षणाद् द्वितीयकपायक्षयोपशमलभ्यपरिणाममात्र स्यैव विवक्षणाञ्चरित्राचरित्रलब्धेरेकाकारत्वमव सेयं, एवं दानादिलब्धीनामेकाकारत्वं भेदानामविवक्षणात्, 'बालबीरियत्ति वालस्य असंयतस्य यद्वीर्यमसंयमयोगप्रवृत्तिहेतुभूतं तस्य या लब्धिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच सा तथा, एवमन्ये अपि यथायोगं वाच्ये, नवरं पण्डितः संयतः बालपण्डितः संयतासंयतः श्राद्धः । 'तस्स अलद्धियाणं'ति तस्य ज्ञानस्य अलब्धिकाः, ज्ञानलब्धिरहिता इत्यर्थः, 'आभिणिवोहियनाणे त्यादि, आमिनिवोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्ति आभिनिवोधिकज्ञानमिति । मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्ते अज्ञानद्वयवन्तः अज्ञानत्रयवन्तो वा एवं श्रुतेऽपि 'ओहिणाणलद्धि'त्ति अवधिज्ञानल|ब्धिकास्त्रिज्ञानाः केवलमनःपर्यायाभावे, चतुर्ज्ञाना वा केवलाभावात्, अवधिज्ञानस्थालब्धिका ये ज्ञानिनस्ते द्विज्ञानिनो मतिश्रुतभावात्, त्रिज्ञाना वा मतिश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात् ये त्वज्ञानिनस्ते द्वथज्ञाना वा मत्यज्ञानश्रुताज्ञानभावात् व्यज्ञाना वा विभङ्गभावात्, 'मणपज्जव'त्ति मनः पर्यवज्ञानलब्धिकास्त्रिज्ञानाः, अवधि केवलाभावात्, चतुर्ज्ञाना वा, केव| लाभावात् मनःपर्यवज्ञानालन्धिकाविज्ञाना अवधिकेवलाभावात्, अलब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञानाः, आद्यद्वयभावात्, त्रिज्ञाना वा आद्यत्रयभावात्, एकज्ञाना वा केवलभावात् ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात् त्र्यज्ञाना वा अज्ञानत्रयभावात्, 'केवलनाण' त्ति केवलज्ञानलब्धिकाः केवलज्ञानिन एव, केवलज्ञानालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यं ज्ञानद्वयं, त्रतयं मतिश्रुत
~ 255 ~
CCCCA
शतके १ उद्देशः
॥१२१॥