SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३०९ ३१४] गाथा: दीप अनुक्रम [३८९१ ३८७] भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १ शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [१] मूलं [ ३०९-११४] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग० लघुवृत्तौ मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वाद् एवमाहारकेण प्यौदा रिकशरीरस्य मिश्रता वेदितव्या, 'वेडब्बियति वैक्रियवपुः कायप्रयोगो वैक्रियपर्याप्तकस्येति 'वेउब्वियमीस'त्ति वैक्रियमिश्रवपुःकाय प्रयोगो देवनारकेषूत्पद्यमानस्यापर्याप्तकस्य, मिश्रता चेह वैक्रियशरीरस्य कार्मणेनैव, लब्धिर्वक्रियपरित्यागे त्वौदारिकप्रवेशाद्वायामौदारिकोपादनाय प्रवृत्तवैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति, 'आहारग'त्ति आहारकशरीरकायप्रयोग आहारकयपुर्निर्वृत्तौ सत्यां तदा तस्यैव प्राधान्यात्, 'आहारगमीस'चि | आहारकस्यौदारिकेण मिश्रतायां सा चाहारकत्यागेनौदारिकग्रहणामिमुखस्य एतदुक्तं स्यात् यदाऽऽहारकशरीरीभृत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा आहारकस्य प्राधान्यादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन न सर्वथा मुक्तं, पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृह्णाति ?, सत्यं तिष्ठति तत्, तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्युच्यते, 'कम्मासरीर'त्ति इह कार्मणशरीरकाय प्रयोगो विग्रहे, समुद्घातगतस्य च केवलिनः तृतीयचतुर्थपञ्चमसमयेषु स्याद् उक्तञ्च - "कार्मणशरीरयोगी चतुर्थ के पञ्चमे तृतीये चेति, एवं प्रज्ञापनाटीकानुसारेणौदा| रिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकानुसारतः पुनर्मिश्रकायप्रयोगाणामेवं औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दधि नो दधितया नापि गुडतया व्यपदिश्यते, तत्त्वाभ्यामपरिपूर्णत्वात् एवमौदारिकं मिश्रं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, 'नवरं बायरवाउक्काहय'त्ति यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथ्वीकायिकादि प्रतीत्य आलापकोऽधीतः तथौदा| रिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यः, नवरमयं विशेषः- तत्र सर्वेऽपि सूक्ष्मपृथ्वीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीताः ~242~ शतके १ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy