________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [८], वर्ग B, अंतर्-शतक , उद्देशक [१], मूलं [३०९-३१४] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३०९३१४]
श्रीभग
लघुवृत्ती
गाथा:
दीप अनुक्रम [३८१३८७]
'जे रसपरिणया ते पंचविहा, तंजहा-तित्तरसपरिणया कड्डयरस कसाय० अंबिल महुररसपरिणया, जे फासपरिणया ते अट्ठ-Til८ शतके । विहा पण्णत्ता, तंजहा-कक्खडफासपरिणया एवं मउय० गुरुय० लहुय० सीय० उसिण सिणिद्ध लुकखफासपरिणया'इत्यादि ॥ २ उद्देशः IRI अर्थकं पुद्गलद्रव्यमाश्रित्य परिमाणं चिन्तयन्नाह-एगे'इत्यादि, मणप्पओ'ति मनस्तया परिणतं 'वहप्पओ'त्ति भाषाद्रव्यं | HIकाययोगेन गृहीत्वा वाग्योगेन सृज्यमानं वाक्प्रयोगपरिणतं, 'कायप्पओ'ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणा
द्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतं, 'सञ्चमणे'त्ति सद्भूतार्थचिन्तनहेतोर्मनसः प्रयोगः सत्यमनःप्रयोगः,
एवमन्येऽपि, नवरं मृषा-असद्भूतोऽर्थः, सत्यामृषा-मिश्रो, यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति,सत्यमृषाविपरीता RI असत्यामृपा, तत्स्वरूपमिदं-यथा देहीति, 'आरंभसच'त्ति आरम्भो-जीवोपघातः तत्सत्कं सत्यमारंभसत्यं तद्विषयो मनःप्रयो|गस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि, अनारम्भो-जीवदया, 'सारंभत्ति संरम्भो-वधसङ्कल्पः, समारम्भस्तु परिताप इति,
'ओरालिय'चि औदारिकशरीरकायप्रयोगः स पर्याप्तकस्यैव वेदितव्यः तेन यत्परिणतं तत्तथा, 'ओरालियमीसत्ति औदा| रिकमुत्पत्तिकाले सम्पूर्ण सत् मिश्र कार्मणेनेत्यौदारिकमिश्र तल्लक्षणं शरीरं औदारिकमिथशरीरं तदेव कायः तस्य यः प्रयोग
स्तेन परिणतं यत्तथा, अयं पुनरपर्याप्तकस्यैव, यदुक्तम्-"जोएण कम्मरणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स | | निष्फत्ती ॥१॥" एवं तावत्कार्मणेनौदारिकवपुषो मिश्रता, उत्पत्तिमाश्रित्य तस्य प्रधानत्वात् , यदा पुनरौदारिकशरीरी वैक्रियलम्धिसम्पन्नो नरः १ पञ्चेन्द्रियतिर्यग्योनिकः २ पर्याप्तचादरवायुकायिको वा ३ वैक्रियं कुर्यात् तदौदारिककायप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियवपुर्योग्यान पुद्गलान् गृहीत्वा यावद्वैक्रियवपुःपर्यायां पर्याप्तिं ब्रजेत् तावद्वैक्रियेणौदारिकवपुषो|
பாரப்பாகம்படியாராதய பதாதயாதரபாதம் பாடும்
~241