________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप
अनुक्रम [३२७
_३८०]
भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०] मूलं [२५९-३०८] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभगन दुःखस्य करणं अदुःखनं तद्भावस्तत्ता तया अदुःखनतया, अदुःखकरणेनेत्यर्थः, 'असोयण'त्ति अशोचनतया दैन्यानुत्पादनेलघुवृत्तौ नेत्यर्थः, 'अजूरण' त्ति शरीरापचयकारिशोकानुत्पादनेनेत्यर्थः, अतिप्पण' त्ति अधुलालादिक्षरणकारणशोकानुत्पादनेन, 'अपिहण'ति यष्ट्यादिताडनपरिहारेण 'अपरितावत्ति शरीरपरितापानुत्पादनेन । दुःखप्रस्तावादिदमाह - 'उत्तमकट्टुपत्ताएं' ति उत्तमकाष्ठाप्राप्तायां, उत्तमावस्थां गतायामित्यर्थः, 'आगार भाव पडोयारे त्ति आकार भावस्य आकृतिलक्षणपर्यायस्य प्रत्यवतारः- अवतरणं आकारभावप्रत्यवतारः 'हाहाभूए' त्ति (सु. २८५) हाहेतिशब्दस्य दुःखार्थेन करणं हाहोच्यते तत् गतः प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए'त्ति भंभेतिशब्दस्य दुःखार्त्तगवादिभिः करणं भम्भोच्यते, शेषं तथैव, 'कोलाहल' त्ति कोलाहल इहार्त्तशकुनिवृन्दध्वनिः, शेषं तथैव, 'समाणुभावे त्ति समा- दुष्पमदुष्पमाकालस्तस्यानुभावेन - सामर्थ्येन 'खरफरुस' त्ति अतिकठोरा धूल्या च मलिना ये वातास्ते 'दुव्विसहा' दुस्सहा: 'वाउल'त्ति व्याकुलाः 'संवहय'त्ति तृणकाष्ठादिसंवर्त्तका 'वाहिंति'त्ति वास्यन्ति, 'इह'त्ति अस्मिन् काले, 'अभिक्ख' अभीक्ष्णं 'धूमाहिंति य दिस' त्ति धूमायिष्यन्ते च धूममुद्रमिष्यन्ति च पुनर्द्दिशः ताः किंभूताः १ - 'समंतारउ' ति समन्तात् रजःखला - रजोयुक्ताः अत एव 'रेणु०' धूल्या मलिनाः, अन्धकारवृन्देन निरस्तदृष्टिप्रसराः 'सम०' कालरूक्षतयेत्यर्थः, 'अहियं'ति अधिकं अहितं या अपथ्यं चन्द्राः शीतं मोक्ष्यन्ति 'अदुत्त 'ति अथापरं च 'अरस'त्ति अमनोज्ञरसा मेघाः 'विरस'त्ति नीरसमेघाः, 'खार'त्ति सर्जादिक्षारसहरमेषाः 'वत्त'त्ति करीपडग्मेषाः, 'अग्गि'ति अग्निवदाहकजला:, 'विज्जु'त्ति विद्युनिपातवन्तः 'विस०' विषसदृशाः, 'असणि'त्ति करकनिपातवन्तः, अथवा गिरिविदारणत्वाद्वजमेषाः, 'अपियणिजे'त्ति अपातय्यजला इत्यर्थः, कचित् 'अजावणिजो 'त्ति अया
~ 226~
----
७ शतके ६ उद्देशः