________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [७], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२५९३०८]
श्रीभग लघुवृत्ती
३ उद्देशः
गाथा:
दीप अनुक्रम [३२७३८०]
|रिजमाण'नि हरितकाच-नीलकाः रेरिज्यमाना-देदीप्यमानाः 'सिरीए' श्रिया बनलक्ष्म्या 'उसिणजोणिय'ति उष्णमेव | योनिर्येषां ते उष्णयोनिकाः। मूला मूलजीव'त्ति (सू. २७५) मूलानि मूलजीवैः स्पृष्टानि-व्याप्तानि, 'जाव' यावत्करणात् 'खंधा | खंघजीवफुडा, एवं तया साला पवाला पुष्फा फला' इत्यादि दृश्यं, 'जइ 'ति यदि भदन्त ! मूलानि मूलादिजीवैः स्पृष्टानि । तदा 'कम्ह'त्ति कस्मात्-केन हेतुना बनस्पतय आहारयन्ति ?, आहारस्य भूमिगतत्वात् , अत्रोचरं--मूलानि मूलजीवस्पृष्टानि, केवलं, पृथ्वीप्रतिबद्धानि,'तम्ह'त्ति तस्मात् प्रतिबन्धात् पृथ्वीरसं मूलजीवा आहारयन्ति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः। तस्मात् मूलजीवोपात्तं पृथ्वीरसमाहारयन्तीति, एवं स्कन्धादिष्वपि वाच्यं ॥ 'आलुए'त्ति (सू. २७६) एतेऽनन्तकायभेदा लोक-| रूढिगम्याः, 'तहप्पगार'ति तथाप्रकारा-आलुकादिसदृशाः, 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सच्चा येषां । ते विविधसञ्चास्ते तथा, अथवा विविधा-विचित्रकर्मतया अनेकविधाः सच्चा येषु ते तथा ।। 'सिय भंते ! कण्हलेसे नेरइए। इत्यादि (स. २७७) ठिई पडुच्च'त्ति, अत्रेयं भावना सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य खस्थितौ बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरस्थिति रको नीललेश्यस्समुत्पन्नस्तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसत्राण्यपि भावनीयानि, 'जोइसियस्स'चि एकस्या एव तेजोलेश्यायास्तस्य सद्भावात संयोगो नास्तीति । सलेश्यजीवाश्र वेदनावन्तः स्युरिति वेदनासूत्राणि 'कम्म वेयण'त्ति (स. २७८) उदयप्राप्तं कर्म वेदना,धर्मधर्मिणोरभेदविवक्षणात् , 'नोकम्मं णिजरइ'ति। कर्माभावो निर्जरा, तस्या एवंस्वरूपत्वादिति 'नोकम्मं णिजरिसुति वेदितरसं कर्म नोकर्म तन्निर्जरितवन्तः, कर्मभृतस्य कर्मणो निजरणासम्भवादिति, 'अब्बोच्छित्तिनयहाए'त्ति (सू. २७९) अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोऽ
~223