SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२५९ ३०८] गाथा: दीप अनुक्रम [३२७_३८०] भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [७], वर्ग [-], अंतर् शतक [F], उद्देशक [१-१०] मूल [२५९-३०८] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग० लघुवृत्तौ DJIGJJICIC JOCJC JOCCI एवमिह त्रीण्यपि वाच्यानि, विशेषमाह - 'नवरं' इत्यादि, 'पंचिदिया तिरिक्खजोणिया मणुस्सा य एवं वेव त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्यादय उक्ताः एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनः स्युरित्येवमवसेयं, देशविरतानां लेशतः सर्वोचरगुणप्रत्याख्यानस्याभिमतत्वादिति । मूलगुणप्रत्याख्यानिप्रभृतयश्व संयतादयः स्युरिति संयतादिसूत्रं 'तिन्निवि'त्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, एवं अनेनैवाभिलापेन यथैव प्रज्ञापनायां तथैव सूत्रमिदमध्येयं तच्चैवम्-नेरड्या णं भंते! किं संजया १ असंजया २ संजयासंजया ३१, गो०! नो संजया असंजया नो संजया संजया' इत्यादि, 'अप्पेत्यादि, अल्पबहुत्वं संयतानां तथैव यथा प्रज्ञापनोक्तं, 'तिष्णिवि' त्ति जीवानां पञ्चेन्द्रियतिरक्षां मनुष्याणां च तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असख्येयगुणाः, असंयता अनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताः, असंयता असङ्ख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संयतासंयताः सङ्ख्येयगुणाः, असंयता असख्येयगुणा इति । संयतादयस्तु प्रत्याख्यानादिमध्ये सति स्युरिति प्रत्याख्यानादिसूत्रं, ननु पष्ठशते चतुर्थोदेशके प्रत्याख्यानादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत् किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिताः, इह तु तद्युक्ताः | सम्बन्धान्तरद्वारायाताचेति । जीवाधिकारात्तच्छाश्वतश्चसूत्राणि - 'दव्ययाए 'ति जीवद्रव्यत्वेनेत्यर्थः, 'भावडयाए'ति नारकादिपर्यायत्वेनेति ॥ सप्तमशते द्वितीयोदेशक विवरणम् ॥ 'पाउसे'त्ति (सू, २७४ ) प्रावृडादौ बहुत्वाजलस्नेहस्य महाहारतोक्ता, प्रावृद् च श्रावणादि वर्षारात्रोऽश्वयुजादिः 'सरदे' ति शरद् मार्गशीर्षादिः, तत्र चाल्पाहाराः स्युरिति, ग्रीष्मे सर्वाल्पाहारतोक्तेः, अत एव शेषे स्वल्पाहारता क्रमेण ज्ञेया, 'हरियगरे अत्र शतक -७ उद्देशक : २ समाप्तः, अथ शतक-७ उद्देशक : ३ आरभ्यते 222~ ७ शतके २ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy