________________
आगम
(०५)
प्रत
सूत्रांक
[२४०
२४३]
गाथाः
दीप
अनुक्रम [२९१
२९९]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [५] मूलं [ २४०-२४३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभगच्छब्द ऐदंपर्यार्थः, 'इणामेव २' इदं गमनमेवेति शीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरं, अनुखाराश्रवणं च प्राकृतलघुवृत्तौ त्वात् द्विर्वचनं शीघ्रत्वातिशयोपदर्शनपरं 'इतिकट्टु' इतिः - उपदर्शनार्थः कृत्वा - विधाय 'केवलकप्पं' ति केवलज्ञानकल्पं, परिपूर्णमित्यर्थः, वृद्धव्याख्याने तु केवलः सम्पूर्णः, कल्पते इति कल्पः - स्वकार्यकरणसमर्थो वस्तुरूप इतियावत् केवलवासी कल्पचेति केवलकल्पः तं, 'तिहिं अच्छराहिं' ति तिसृभिश्वप्पुटिकाभिरित्यर्थः 'तिसत्त'त्ति त्रिगुणाः सप्त त्रिसप्त, त्रिसप्त वारान् त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'हवं'ति शीघ्रं 'अत्थे गइय'त्ति सङ्ख्यातयोजनमानं व्यतिव्रजेद् इतरं तु नेति, 'उराल'त्ति महान्तो मेघाः 'संसेयंति' संविद्यन्ति, तजनकपुद्गलस्नेहसम्पच्या सम्मूर्च्छन्ति, पुद्गलमीलनात् तदाकारतयोत्पत्तेः, 'तं भंते 'ति तत्संवेदनं सम्मूर्द्धनं वर्षणं च 'बायरे'त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निपेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भाखराः पुद्गलास्ते इति, निन्नत्थ विग्गहगह'त्ति न इति योऽयं बादरपृथ्वी तेजसोनिषेधः सोऽन्यत्र विग्रहगतिसमापन्नान् विग्रहगत्यैव बादरे ते तत्र भवतः, पृथ्वी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु च तेजस्तु मनुष्यक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वात्, 'पलियरस'ति परिपार्श्वतः पुनस्संति तमस्कायस्य चन्द्रादय इति 'कादूसणिया पुण'त्ति, ननु तत्पार्श्वतचन्द्रादीनां सद्भावात् तत्प्रभाऽपि तत्रास्ति, सत्यं केवलं कं- आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषणिका, दीर्घता च प्राकृतत्वात्, 'कालो भास'त्ति कालोऽपि कचित् कुतोऽपि कालो नावभासते अत आह-कालावभासः, कालदीप्तिर्वा, 'गंभीरलोम'त्ति गम्भीरवासौ भीषणत्वात् रोमहर्षजननश्चेति गम्भीररोमहर्षजनन: भीष्मः, 'उत्तासण'त्ति उपासनकं उत्कम्पहेतुः 'तप्पढम'त्ति दर्शनप्रथमतायां 'खोभाए 'त्ति स्कभीयात् क्षुभ्येत्,
~ 200~
PSYCHICC.
६ शतके उद्देशः