________________
आगम
(०५)
भाग-1 "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [१], वर्ग, अंतर-शतक , उद्देशक [१], मूलं ७-११] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
शतके उद्देश:
सूत्रांक
[७-११]
गाथा
सया पृष्टानि निणीतानि, अथैतानि चलनादीनि मिथः किं तुल्यार्थानि भिन्नानि वा इति पृच्छानिर्णय दर्शयितुमाह 'एएणं भंतेत्ति इति व्यक्तम् , 'एगट्ठ'नि एकप्रयोजनानि च 'माणाघोस'त्ति इह घोषा-उदात्तादयः 'नाणावंजण'नि व्यंजनानि अक्षराणि |'उदाहुति उताहो निपातो विकल्पार्थः 'नाणदृ'त्ति नानार्थानि, इह चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि, यथा क्षीरं क्षीरं १ तथा अन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इति २ तथा अन्यानि अनेकार्थानि एकव्यञ्जनानि यथा अर्कगव्यमाहिपाणि क्षीराणि ३ तथा अन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटमुकुटलकुटशकटादीनि ४, एवं चतुभङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको अत्र प्रश्नसूत्रे गृहीतौ, चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि पञ्च पदान्याश्रित्य चतुर्थः, कथं आधानि चत्वारि पदान्येकार्थानीत्याशंक्याह-'उप्पन्नपक्खस्स'त्ति इह च षष्ठयास्तृतीयार्थत्वात्। | उत्पन्नपक्षण, उत्पादपर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मक्षये फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादपक्षविषयत्वादेकार्थान्युक्तानि, तत् कथं ?-चलितं सत् उदीरयति, उदीरितं सत् वेद्यते, विदितं सत् अनुभूयते, (अनुभूतं सत)। प्रहीयते, तस्मादेकार्थान्येतानि, केवलोत्पादपक्षसाधकानीत्यर्थः, अथ शेषाणि अनेकार्थानि पञ्च पदानि प्रतिपादयितुमाह-छिज्जमाणे त्ति छियमानं छिसमितिपदं स्थितिबन्धाश्रयं, यतः सयोगिकेवली योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिमृणां | प्रकृतीनां दीर्घस्थितिकानां सर्वापवर्तनया अन्तर्मुहूर्तकं स्थितिबन्धं कुर्यात् , भिद्यमानं भिन्नमितिपदमनुभागवन्धाश्रयं, तत्र यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति अतो रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदमेतत् , दह्यमानं दग्धमिति पदं प्रदेशबन्धाश्रय, अनन्तानां प्रदेशानां कर्मदलिकानां पञ्चइखाक्षरोचारणकालपरिमाणयाऽसंख्यातसमयया गुणश्रेणीरचनया पूर्व
दीप अनुक्रम [८-१५]
~19~