________________
आगम
(०५)
प्रत
सूत्रांक
[२३२
२३७]
दीप
अनुक्रम
[ २८०
२८५]
भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १
शतक [६] वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [२३२-२३७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभगः
लघुवृत्तौ
भ्योऽनन्तगुणानामिह गणनादिति, 'एएसिं सच्चे सिं'ति एतेषां पूर्वोक्तानां संयतादीनां चतुर्दशद्वाराणां तद्गत भेदापेक्षया अल्पबहुत्वमुच्चारयितव्यं तद्यथा- एएसि णं भंते! संजयाणं असंजयाणं संजय संजयाणं नोसंजयनोअसंजयनोसंजया संजयाणं कयरे कयरेहिंतो अप्पा वा ४१, गोयमा ! सव्वत्थोवा संजया संजयासंजया असंखेजगुणा नोसंजयानोअसंजयानोसंजयासंजया अणंतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावचरमाद्यल्पबहुत्वं एतदेवाह 'सव्वत्थोवा जीवा अचरिमे' त्यादि, अत्राचरिमा अभव्याः, चरमाथ ये भव्याश्वरमभवं प्राप्स्यति, सेत्स्यन्तीत्यर्थः, ते चाचरमेभ्योऽनन्तगुणाः यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः यस्माद्यावन्तस्सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्वायामिति ॥ षष्टशते तृतीयोदेशकविवरणम् ॥
अनन्तरोदेश के जीवा निरूपिताः, तानेव भङ्गान्तरेण चतुर्थोद्देशकेऽपि निरूपयन्नाह 'जीवे णमित्यादि (सू.२३८) 'कालायसे'ति कालप्रकारेण कालमाश्रित्येत्यर्थः, 'सपए से 'त्ति सविभागः 'नियमा सपएस' त्ति अनादित्वेन जीवस्यानन्त समयस्थितिकत्वात् सप्रदेशता, यो हकसमयस्थितिकः सोऽप्रदेशः द्वयादिसमयस्थितिस्तु सप्रदेशः, इह चानया गाथया भावना कार्या, 'जो जस्स पढमसमए बढ्इ भावस्स सो य अपएसो । अनंमि वट्टमाणे कालाएसेण सपएसो (सू. २३८ ) ॥ १ ॥ नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वद्यादिसमयोत्पन्नः स सप्रदेशः अत उक्तम्- 'सिय सपएसे सिय अपए से' एप एकत्वेन जीवादिः सिद्धावसानः पविंशतिदण्डकः कालसप्रदेशत्वादिना चिन्तितो, अधायमेव तथैव पृथक्त्वेन चिन्त्यते 'सव्वेऽवि ताव होज सपएस'त्ति उपपातविरहकाले असङ्ख्यातानां पूर्वोत्पन्नानां भावात् सप्रदेशाः सर्वेऽपि भवेयुः तथा पूर्वोत्पन्नेषु मध्ये यदेकोऽन्यो
अथ शतक-६ उद्देशक : ३ समाप्तः, अथ शतक-६ उद्देशक : ४ आरब्धः
188~
६ शतके
४ उद्देशः