________________
आगम
(०५)
प्रत
सूत्रांक
[२३२
२३७]
दीप
अनुक्रम
[ २८०
२८५]
भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १
शतक [६] वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [२३२-२३७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग० लघुवृत्तौ
बन्धकत्वात्, 'अजोगी ण बंधइत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति । उपयोगद्वारे 'अडसुवि भयणाए 'त्ति साकारानाकारावुपयोगौ सयोगानामयोगानां च स्यातां तत्र सयोगा ज्ञानावरणादिप्रकृतीर्यथायोगं बध्नन्ति अयोगास्तु नेति भजना । आहारकद्वारे 'दोsवि भयणाए 'त्ति आहारको वीतरागोऽपि स्यात् न चासौ ज्ञानावरणं बनाति, सरागस्तु बध्नाति इति भजनया आहारको बध्नाति तथा अनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्, तत्र केवली न बध्नाति, इतरस्तु बनाति, इत्यनाहारको भजनया उक्तः, 'वेयणिज्जं आहारए बंधइत्ति अयोगवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, 'अणाहारण भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगत केवली च बध्नाति, अयोगी सिद्धश्च न बध्नाति इति भजना, 'आउयं आहारए भयणाएत्ति आयुर्बन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धनात् भजनेति, 'अणाहारए ण बंधइति विग्रहगत्यापन्नानामप्यायुषोऽबन्धनादिति । सूक्ष्मद्वारे 'बायरे भयणा' वीतरागवादराणां ज्ञानावरणाबन्धकत्वात् सरागवादराणां च बन्धकत्वात् तद्भजनेति, | सिद्धस्य पुनरबन्धकत्वादाह- 'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भगणार'त्ति बन्धकाले वन्धनादन्यदा त्वबन्धनात् भजनेति । चरमद्वारे 'अडऽविह भयणाए 'ति इह यस्य चरमो भवो भविष्यति स चरमः यस्य तु नासौ भविष्यत्यसौ अचरमः, सिद्धश्राचरमः, तस्य चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बनाति, अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टापि बभीयात्, सिद्धस्तु नेत्येवं भजनेति । अथाल्पबहुत्वद्वारं तत्र - 'इत्थवेयगा संखेजगुण' ति (सु. २३७) यतो देवनरतिर्यक्पुरुषेभ्यः खियः क्रमशो द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाः स्युरिति, 'अवेयगा अनंतगुण'ति अनिवृत्तिवादरसम्परायादयः सिद्धाचावेदाः अतस्तेऽनन्तत्वात् स्त्रीवेदेभ्योऽनन्तगुणाः स्युरिति, नपुंसगवेयगा- 'अनंतगुण'त्ति अनन्तकायिकानां सिद्धे
187~
६ शतके १३ उद्देशः
॥८७