SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१८४ १९९] दीप अनुक्रम [२२४२४०] भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १ शतक [५] वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [१८४-१९९] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभगः लघुवृत्तौ COCKKK प्यति १, इप्यते लोकसख्येयभागावधैर्मनोद्रव्यग्राहित्वं यदाह - "संखिज्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्यो" त्ति ।। 'उदि नमोह त्ति (मू. १९६) उत्कटवेदमोहनीयाः, 'उवसंत'त्ति अनुत्कटवेदमोहाः, परिचारणायाः कथञ्चिदप्यभावात् नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, 'नो खीणमोहे' त्ति क्षपकश्रेणेरभावात् 'आयाणेहिं' (मू. १९७) आदीयते-गृह्यतेअर्थ एभिरित्यादानानि इन्द्रियाणि तैर्न जानाति, केवलित्वात् ॥ 'अस्सि समयंसि' (स. १९८) अस्मिन् वर्त्तमानसमये 'ओगाहित्ताणं' अवगाह्य आक्रम्य 'सेयकालंसि' एष्यत्कालेऽपि वीरिय'त्ति वीर्य वीर्यान्तरायक्षयप्रभवा शक्तिस्तत्प्रधानं सयोगंमानसादिव्यापारयुक्तं यत् सद्- विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यात् इति | सयोगशब्देन द्रव्यं विशेषितं, सदिति विशेषणं तस्य सदा सत्तावधारणार्थं, अथवा स्वः- आत्मा तद्रूपं द्रव्यं स्वद्रव्यं, ततः कर्म्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्द्रव्यः - मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाई' ति चलानि अस्थिराणि 'उवकरणाई' अङ्गोपाङ्गानि 'चलोबगरणडयाए' त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावः चलोपकरणार्थता तया चलोपकरणार्थतया । 'घडाओ घडसहस्सं' (सू. १९९) घटावधेः घटं निश्रां कृत्वा घटसहस्रं 'अभिनिव्वहित्ता' अभिनिर्वर्त्य - विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः 'उक्कारिया भेएणं' इह पुद्गलानां पञ्चधा भेदः खण्डादिभेदात्, तत्र खण्डभेदः खण्डशो यो भवति लोष्ठादिरिख, प्रतरभेदोऽभ्रपटलानामिय, चूर्णिका भेदस्तिलादिचूर्णवत्, अनुतटिकाभेदोऽवटतटवंशभेदवत्, उत्कारिकाभेदः एरंडबीजानामिव तत्रोत्कारिकाभेदेन भिद्यमानानि लब्धानि - लब्धिविशेषाद् ग्रहणविषयतां गतानि प्राप्तानि अभिसमन्यागतानि घटादिरूपेण परिणमयितुमारब्धानि ततस्तैर्घटसहस्रादि निर्व ~161~ ५ शतके | ४ उद्देशः ॥७४॥
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy