SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१ शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [४], मूलं [१८४-१९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत श्रीभग: सूत्रांक शतके उद्देशः लघुवृत्ती [१८४१९९] दीप अनुक्रम तत्र प्रथमं पञ्चधा श्रोत्रादीन्द्रियभेदात् , नोइन्द्रियं त्रिधा-अवध्यादिभेदात् , त्रिविधमनुमानं-पूर्ववत् शेषवत् दृष्टसाधर्म्यवत् , तत्र | (पूर्ववत् ) पूर्वोपलब्धासाधारणलक्षणात् मात्रादिप्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गान्परोक्षार्थज्ञानं, यथा मयूरोत्र केकायितादिति, दृष्टसाधर्म्यवत् यथा एकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एते इति प्रतिपत्तिः औपम्यं यथा गौर्गवयस्तथेति, आगमो द्विधा लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात् , अन्यथा वा विधा, आत्मागमअनन्तरागमपरम्परागमभेदान , तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, तेण परं'ति, गणधरशिष्याणां सूत्रतोऽनन्तरागमः अर्थतस्तु परम्परागमः, ततः परं प्रशिष्याणामिति, 'नो'त्ति आत्मअनन्तरपरंपरागम|त्रिके निषेध एव वाच्य इत्यर्थः ।। 'चरमकम्मति (सू. १९३) चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते, चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति ।। 'पणीय'ति (स.१९४) प्रणीतं शुभतया प्रकृष्टं 'धारेज'त्ति धारयेद्-व्यापारयेत् , एवं अणंतरपरंपर'त्ति अस्थायमर्थः-यथा पैमानिका द्विधा प्रोक्ताः, मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवमत्रापि सम्यग्दृष्टयोऽनन्तरोपपत्रकपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपपन्नकानां ज्ञाननिषेधः, तथा परम्परोपपत्रकाः पर्याप्तकापर्याप्तकमेदात् । द्विधा, अपर्याप्तकानां च ज्ञाननिषेधः, पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा, अनुपयुक्तानां ज्ञाननिषेधः, आलापं-(स. १९५)। सकृजल्पनं संल्लापं-मुहुमुहुर्जल्पनं, लद्धाओं तदवधेविषयं गताः, पत्ताओ' तदवधिना सामान्यतः प्राप्ताः-परिच्छिन्नाः, अभि-18 समन्यागता-विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं सम्भिन्नलोकविषयं, या लोकनाडीग्राहकं तन्मनोवगणाग्राहकं खादेव, यतो योऽपि लोकसङ्ख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही, यः पुनः सम्भिन्नलोकविषयोऽसौ कथं न मनोद्रव्यग्राही भवि [२२४ २४०] S ~160
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy