________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [४], मूलं [१८४-१९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
श्रीभग
सूत्रांक
शतके
लघुवृत्ती
[१८४१९९]
दीप
अनुक्रम
निन्दह मनसा खिंस'त्ति जनसमक्षं, 'गरह'त्ति अन्यजनसमक्षं 'अवमन्नहत्ति तदुचितप्रतिपयकरणेन 'परिभवह'त्ति परिभवः-समस्तपूर्वोक्तपदकरणेन अग्लान्या-अखेदेन 'संगिण्हह' सङ्ग्रहीत-स्वीकुरुत, उवगिण्हह' उपगृहीत-उपष्टम्भं कुरुत, 'अंतकर त्ति भवच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीर'त्ति चरमशरीर इति,'झाणंतरियाए'त्ति अन्त-। रस्स-विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका, आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमिति भावः, तस्यां वर्त्त-IR मानस्य ॥'कप्पाओ'(स.१८८)कल्पाद्-देवलोकात् 'सग्गाओ'त्ति स्वर्गाद-देवलोकदेशात् प्रस्तटात् 'विमाणाओ'प्रस्तटैकदेशात् । 'वागरणाई' व्याक्रिपन्त इति व्याकरणानि अर्थाः अधिकृता एव, 'देवाणं'ति (स. १८९) 'से किं खाईणं भंते! देवा। इय बत्तब्वं सिय'त्ति से इति अथार्थः, खाई पुनरर्थः, णमिति वाक्यालङ्कारे, देवा इति यद्वस्तु तद्वक्तव्यं स्यात् ,'नोसंयता'। इत्येतद्वक्तव्यं स्यात् , असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वात् , मृतशब्दापेक्षया परलोकीभूतशब्दवदिति, |'विसिस्सइ'त्ति (सू. १९०) विशिष्यते-विशिष्टा स्यात् , अद्धमागह'त्ति भाषा पविधा, यथा प्राकृतसंस्कृतशौरसेनीमागधीपैशाचीअपभ्रंशरूपाः, तत्र मागधभाषालक्षणं किश्चित्किञ्चिच प्राकृतभाषालक्षणमस्यामस्ति सा अर्ध मागध्या इति व्युत्पत्त्याऽर्द्धमागधी 'उवासगस्स'त्ति (सू. १९१) केवलिनमुपास्ते यः श्रवणाकाङ्क्षी तदुपासनामात्रपरः सन्नसौ केबल्युपासकः, 'तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येति, 'पमाणे'त्ति (सू. १९०) प्रमीयते येनार्थस्तत्प्रमाणं 'पचक्खे' अक्षं-जीवं प्रति गतं प्रत्यक्षं 'अणुमाणे' अनु-लिङ्गग्रहणसम्बन्धमारणादेः पश्चात् मीयतेऽनेनेत्यनुमान 'ओवम्मे' उपमीयते-सदृशतया गृह्यते वस्तु अनयेत्युपमा सैव औपम्यं 'आगमि'त्ति गुरुपारम्पर्येणैतीत्यागमः, द्विविधं प्रत्यक्ष-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च,
[२२४
२४०]
॥७॥
~159~