SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||८३२ ९२०|| दीप अनुक्रम [८४७ ९३५] भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२३], मूलं [१२.. ] / गाथा ||८३२... ९२०/८४७-९३५||, निर्युक्तिः [४५१...४५७/४४८-४५४], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चण २३ केशिगत० ॥२६५॥ पदार्थानां विनिश्चयं आलोच्य देशकालानुरूपं धर्मं कथयति तीर्थकराः, किं तद्विप्रत्ययकारणं १, तदुच्यते, द्वादश कारणानि, सूत्रोक्ता नि) एव नियुक्तिकारेण प्रोक्तानि, 'सिक्खा क्या य' इत्यादि ( ४५५-६ - ७ ) गाथात्रय संगृहीतानि, शिक्षापदानि पंच महाव्रतानि चत्वारि किमित्यभिहितानि प्रथमं तथा लिंगद्विविध्यं किमिति द्वितीयं, आत्मा कषाया इंद्रियाणि च शस्त्रं तत्तृतीय, पाशानां अवकर्शनं, वृत्तीच्छेदने पाशानां छेदनमित्यर्थः, रागद्वेषादयः पाशः, चतुर्थं तंतूद्धरणबंधने, तंतु-भवलता उद्धरणं-नाशनं तद् बंधने कृते भवलता उधृता) भवति, अग्निविध्यायनं च पंचमं, अग्निः कषायः निर्वापणं श्रुतं शीलं च६, दुष्टाश्वो मनः७, पथः सम्यग्ज्ञानदर्शनचारित्राणि तस्य परिज्ञानं ८, महापरिश्रोतानि मिध्यादर्शनाविरतिप्रमादकपाययोगाः तेषां निवारणं ९, संसारावस्य पारगमनं १० तम:- अज्ञानं तस्य विघाट प्रकाशकिरणं ११, मोक्षस्थानस्य उपसंपदा, मोक्षस्थानप्राप्तिरित्यर्थः १२, एवमेतानि द्वादश स्थानानि सूत्रे व्याख्यातानि पुरिमाण दुव्विसोज्झो उ इत्यादि, प्रथमतीर्थकर शिष्याणां दुर्विशोध्यः संयमः, ऋजुजडत्वात्, पश्चिमतीर्थकर शिष्याणां दुरनुपालकः संयमः, वक्रजडत्वात्, मध्यमतीर्थकर शिष्याणां ऋजुप्रज्ञत्वात् सुविशोध्यः सुखं चानुपालयः, अतो- अनेन कारणेन द्विधा प्रकल्पितः। साधु गोतम' इत्यादि, सर्वत्र पृच्छा उत्तरं च बोद्धव्यं, तथा अ (स) चेलको मध्यमतीर्थकरैः, स ( अ ) चलकः प्रथमपश्चिमैर्धर्मः प्रदर्शितः, लिंगद्वैविध्येऽपि इदमेव कारणं, तथा च संयमयात्रार्थमात्रक (ग्रहणं) अग्रहणं भवितव्यमिति, परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारणं, न लिंगादीनि एवं द्वादशसु कारणेषु व्याख्यातेषु केश्याचार्यो गौतमस्य स्तुतिं करोति, साधु गोमत! पन्ना ले, छिन्नो मे संसओ इमो नमो ते संस्यातीत !, सन्यसत्तमहोदही ॥ ९१६ ।। एवं तु संसए छिन्ने, केसी घोरपरक्कमो। वंदितु पंजलिउडो, गोतमं तु महामुणी ॥ ९१७|| पंचमहव्वयजुत्तं, भावतो [278] विप्रत्ययकारणानि ॥२६५॥
SR No.035057
Book TitleSachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages302
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy