________________
आगम
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
(४३) अध्ययनं [ १६ ],
मूलं [२-१२/५११-५३८] / गाथा || ५१०-५२६/५११-५३८]],
निर्युक्ति: [३७९...३८५/३७९-३८५], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
प्रत
सूत्रांक
[२-१२]
गाथा
||५१०
५२६||
दीप
अनुक्रम [५११
[५३८ ]
श्रीउत्तरा०
चूर्णो
१६
ब्रह्मचयों० *
॥२४१ ॥
इति शिष्यामन्त्रणं, सत्स्वप्यन्येषु जात्यादिषु आमन्त्रणेषु आयुरेव गरीयः, कुतः १, आयुषि सति सर्वाण्येव जात्यादीनि भवति, के एवमाह--सुधर्मास्वामी, जम्बुनामानं शिष्यमाश्रित्य ब्रवीति, यथा मया भगवतः समीपे श्रुतं, अनेन शिष्याचार्यप्रबन्धः प्रदशितो भवति, अथवा श्रुतं मया आयुषि सति भगवता, जीवता भगवता एवमाख्यातमितियावत् अनेन क्षणभङ्गनिरासः कृतो भवति, अथवा श्रुतं मया आवसताऽनु, समीपे निवसता इत्यर्थः, अनेन गुरुकुलवासः ख्यापितो भवति, नित्यं गुरुकुलवासिना भवितव्यमिति, अथवा श्रुतं मया आमृपता, गुरुपादाविति वाक्यशेषः, विनयेन मया लब्धं इतियावत्, अनेन विनयमूलो धर्मः प्रदर्शितो भवति, 'इह खलु थेरेहिं' इत्यादि, इह अस्मिन् प्रवचने, खलु अवधारणे, इहैव नान्यस्मिन् प्रवचने, धर्मे स्थिरीक रणात् स्थविरा: तैर्भगवद्भिः स्थविरैः ऐश्वर्यादिसम्पदुपेतैर्दश ब्रह्मचर्यस्थानानि, प्रज्ञप्तानि कथितानीत्यर्थः, यानि भिक्षुः भिक्षुशव्दव पूर्वोक्तः श्रुत्वा निशम्य, अवधार्येत्यर्थः, 'संजमबहुले' संयमः पृथिवी कायादिकः संवरः पंच महाव्रतानि समाधि:ज्ञानादिकः, बहुलशब्दः पुनः पुनः करोत्यर्थः, एतानि ब्रह्मचर्यावस्थितः सर्वाण्येवाराधयति, तथा च यः गुप्तो मनोवाक्कायैः, तथा इन्द्रियैः ब्रह्मचर्ये च गुतः सदा अप्रमत्तो विहरेत्, सः अमृनि स्थानानि आराधयतीति । इदानीं शिष्यः पृच्छति -कतराणि | तानि दश ब्रह्मचर्यस्थानानि ० १ || (सूत्रं ३- ४२४) ॥ आचार्यो निर्वचनं करोति-अमूनि तानि वक्ष्यमाणानि, तंजहा- 'नो इत्थीपसुपंडग' इत्यादि, 'न' इति प्रतिषेधे, स्त्रियः प्रसिद्धाः पशवः गावीमहिपीअश्वगर्दभादि, पण्डका-नपुंसकाः, संसक्तानि -आकीर्णानि तैः, शयनानि स्थानानि च एतानि न सेवते यः स निर्ग्रन्धो भवति, 'तं कथमित्यादि, तत्कथमिति चेत् (कथं एतानि स्थानानि सेवमानो न निर्ग्रन्थो गवति ?, उच्यते एतानि स्थानानि सेवमानस्य ब्रह्मचर्ये शंका भवति, सेवामि न सेवामीति शङ्कामाचं.
[254]
स्थाननिक्षेपः
॥२४९॥