SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्राक ||३५२ ३८० ॥ दीप अनुक्रम [ ३५२ ३८०] भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्तिः [८३-८५], मूलं [गाथा ३५२-३८० ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि : श्रीसूत्रचूर्णि ॥१८०॥ | इत्यर्थः, अभय इति अभयं करोत्यन्येषां न च स्वयं विभेति, अनायुरिति नोऽस्यागमिष्यं जन्म विद्यते आगमिष्यायुष्कबंधी या, 'से भूतिपण्णे अणिएतचारी' वृत्तं ॥ ३५७ ॥ भूतिर्हि वृद्धौ मङ्गले रक्षायां च भवति, वृद्धौ तावत्प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, रक्षायां रक्षाभूतस्य सर्वसच्चानां वा, मङ्गलेऽपि सर्वमंगलोत्तमोत्तमाऽस्य प्रज्ञा, अनियतं चरतीति अनियतचारी, ओघो द्रव्योषः समुद्रो भावौघः संसारः तं तरतीति ओघंतरः, घिया राजतीति धीरः, अनंतचक्षुरिति अनंतं केवलदर्शनं तदस्य चक्षुर्भूतः, | अणुत्तरं तवइति सूर एव न हि सूर्यादन्यः कश्चित्प्रकाशाधिकः, एवं भड्डारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेण चेत्र ओभासति तवति भासेति, अथवा सेसं च कर्म्म तवति, आदित्य इव सरांसि तपति औषधयो वा, वैरोयणेंदो वा रूवदित्तो विविधं रुचतीति वैरुचनः अग्निः स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वेरोचजेंद्रः, स यथा आज्यामिक्तः सन् तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति । 'अणुत्तरं धम्ममिणं जिणाणं' वृत्तं || ३५८ || नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरं, जिनानामिति अन्येषामपि जिनानां अयमेव धर्मः अतीतानामागमिष्यतां च एप भगवतां धर्मः, अयमेव भगवान्नयतीति नेता, कोऽर्थः १, जहा ते भगवन्तो नीतवन्तः तथा अयमपि नयति, काश्यपगोत्रः काश्यपमुनिः केवलज्ञानित्वात् आसुप्रज्ञः आसुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः, इंदेव देवाण महानुभागे इंद्रेण तुल्यं इंदवत्, अनुभवनमनुभावः, सौख्यं वीर्यं माहात्म्यं चानुभावाः सहस्रमस्य नेत्राणां सहस्सनेता, अनेकानां वा सहस्राणां नेता नायक इत्यर्थः दिवि भवा दिविनः सर्वेभ्यो दिविभ्यः स्थानरिद्धिस्थितिद्युतिकान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः १, किंच- 'से पण्णसा (या) अक्खयसागरे वा वृत्तं ॥ ३५९ ॥ ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसंपत्, न तस्य ज्ञातव्येऽत्यर्थे तुष्टिः परिक्षीयते प्रतिहन्यते वा सादी अपजवसितो कालतो, [193] भगवद्गुण प्रश्नः ॥१८०॥
SR No.035052
Book TitleSachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages486
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy