SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (३० - वृ) प्रत सूत्रांक ||१०३ || दीप अनुक्रम [१०३] “गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:) मूलं ||१०३ || मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः जत्थ य मुणिणो कयविक्रयाई कुर्वति संजम भट्टा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिजा ॥ १०३ ॥ जत्य य० ॥ यत्र गणे 'मुनयः' साधुवेपविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः 'कय'ति मूल्येन वस्त्रपात्रौषधशिष्यादिकं स्वीकुर्वन्ति 'विकयाई' ति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, ' जत्थ ये' त्यत्र चकाराद्म्यैः क्रयविक्रयादिकं कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः १- संयमात् पृथिव्यादिसप्तदशविधात् भ्रष्टाः सर्वथा यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः 'तं' पूर्वोक्तस्वरूपं 'गच्छे' गणं गुणानां ज्ञानादिगुणानां सागरःसमुद्रो गुणसामरस्तस्यामन्त्रणं 'हे गुणसागर !' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूरं' अदर्शनं यथा स्यात्तथा परिहरेत् । अत्र विषं तूपमामात्रं येन विषादिक (ना) मरणं भवति न वा परं गुणभ्रष्टगच्छसङ्गात् कुमतिप्रस्तगणसङ्गाच्चानन्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति ।। १०३ ॥ आरंभेसु सत्ता सिद्धंतपरंमुहा बिसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज मज्झे सुविहियाणं ॥ १०४ ॥ आरंभे० ॥ बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षेण-मनोवाक्काय व्यापारेण सक्ताः- तत्पराः प्रसक्ताः, यद्वा आरम्भेषु जीवोपमर्दकारिषु परिग्रहादिषु सत्ता-मेलनपालनादितत्परास्तान् सिद्धान्तेषु - आचाराङ्गादिश्रुतरक्षेषु पराहूमुखाः- विपरीतवक्रास्तदुक्तानुष्ठान लेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च तत्र कामः -- शब्दरूपलक्षणः भोगो-गन्धरसस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन् हे गौतम ! 'वसेत्' निवासं कुर्यादिति, मध्ये, केषां ?सुष्ठु - मनोवाक्कायेन शोभनमनुष्ठानं विहितं निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥ १०४ ॥ ~366~ क्रयविक्रयवर्जनं आ रंभत्यागादि गा. १०३-४ ५ १० १४
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy