________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||२५
-२७||
दीप
अनुक्रम
[२५-२७]
श्रीगच्छाचारलघुवृत्ती
॥ १० ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं || २५-२७||
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
दर्शयतीत्यर्थः, 'आज्ञां' पारगतो कमर्यादां 'अतिक्रमन्' उल्लङ्घयन् पुनः सः 'कापुरुषः पुरुषाधमः, 'न सत्पुरुषः' न प्रधानपुरुषो, जमालिवदिति ॥ २७ ॥ अथ कीदृशा आचार्या आज्ञातिक्रामका भवन्ति ?, आहभट्ठायारी सूरी १ भट्ठायाराणुविक्खओ सूरी २ । उम्मग्गठिओ सूरी ३ तिन्निवि मग्गं पणासंति ॥ २८ ॥ भट्ठा० ॥ भ्रष्टः सर्वथा शिथिलीभूतः आचारो - ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरिः' अधर्माचार्यः १ भ्रष्टाचाराणां मुक्तसंयमव्यापाराणां मुनीनामुपेक्षकः, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्दधर्माचार्यः २ 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरिः' अधमाधमो नामाचार्यः ३ एते त्रयोऽपि 'मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः ॥ २८ ॥ एतान् यः सेवते तस्य फलं दर्शयन्नाह -
उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरिं । निअमेणं सो गोयम ! अप्पं पाडेह संसारे ॥ २९ ॥ उम्म० ॥ 'उन्मार्गस्थितान्' आगमविरुद्ध प्ररूपकान् 'सन्मार्गनाशकान्' जिनोकमार्गदूषकान् 'यः' भव्यसत्त्वः सेवते, | तदुक्तममुष्ठानं कुरुत इत्यर्थः, तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि' मिति 'सूरीन्' आचार्यान् प्राकृतत्वादेकवचनं, 'नियमेन' निश्चयेन स हे गौतम! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः ॥ २९ ॥ किशउम्मग्गठिओ एकोऽवि नासए भवसत्तसंघाए । तं मग्गमणुसरंतं जह कुत्तारो नरो होइ ॥ ३० ॥ सम्म० ॥ 'एकोऽपि' अद्वितीयोऽपि सूरिः साधुर्वा 'उन्मार्गस्थितः' कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे | पातयतीत्यर्थः 'भव्य सत्त्वसङ्घात' भवसिद्धिकजन्तुसमूहं तन्मार्ग 'अनुसरन्तं' आश्रयन्तं यथेति दृष्टान्तोपदर्शने 'कुतारः'
~323~
आज्ञाति
क्रामकस्य
स्वरूपं तत्सेवाफलं
गा. २९३०
२०
२५
॥ १० ॥ २७