________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||३०||
दीप
अनुक्रम
[३०]
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||३०||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
| कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति आत्मानमपि च बोलयतीति ॥ ३० ॥ अथो न्मार्गपरम्परा लग्नानामाचार्याणां मुनीनां च किं फलं भवति ? इत्याह
उम्मग्गमग्गसंपद्विआण साहूण गोअमा ! नूनं । संसारो अ अणंतो होइ य सम्मग्गनासीणं ॥ ३१ ॥ उम्म० ॥ उन्मार्गा - गोशालकबोटिकनिहवादयस्ते तेषां मार्ग:-परम्परा तस्मिन् यद्वा उन्मार्गरूपो यो मार्गस्तस्मिन् स्थितानां 'साधूनां' सुनिवेषाभासकानां उपलक्षणत्वात्तदाचार्याणामपि हे 'गौतम !' हे इन्द्रभूते ! 'नूनं' निश्चितं 'संसारः' 'चतुर्गत्यात्मकः न विद्यतेऽन्तः - पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेक दुःख सूचकः, किंभूतानां ?'सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां महानिशीथोक्तमुनिचन्द्रसाधुवत् ॥ ३१ ॥ अथ कोऽपि कदाचित्प्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्तु भब्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति ?, तद्विपरीतश्च कीटशो भवति ?, इत्याह
सुद्धं सुसाहुमग्गं कहमाणो ठवइ तइअपक्वंभि । अप्पाणं इयरो पुण गिहत्थधम्माओ चुक्कत्ति ॥ ३२ ॥ सुद्धं ॥ 'शुद्ध' आज्ञाशुद्धिसंयुक्तं 'सुसाधुमार्ग' सुविहितपर्थं 'कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 'आत्मानं ' स्वयं क ? - साधु श्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविद्वानां - मोक्षाभिलापिसुसाधूनां पाक्षिक:| साहाय्यकर्त्ता संविघ्नपाक्षिकस्तस्मिन् तस्येदं लक्षणं- "सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ म सोमराइणिओ ॥ १ ॥ वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेव । अत्तट्ठा नवि दिक्खइ देइ सुसाहूण
~324~
उन्मार्गग
फलं संविनपाक्षिक
स्व. गा. ३१-२
५
१०
१४