________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [५१] / गाथा ||४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५१]
दीप
लयद्येवं प्रकारान्तरत्वमसिहं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तखात्, नैतदेवं, प्राग सचित्तद्रव्यस्कन्धाधिकारात्
तथाऽसम्भविनोऽपि वुद्ध्या निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्लस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । यद्येवं तर्हि हयादिस्कन्धस्य कृत्लत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं, यतोऽसवयेयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षणः समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्घयेयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद्जादिस्कन्धस्य बृहत्तरत्वमसिद्ध, यदि हि जीवप्रदेशपुगलसमुदाय: सामस्त्येन वढेत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदायस्य | महीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । अन्ये तु पूर्व सचित्तस्कन्धविचारे
जीवतदधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धोऽत्र तु शरीरात् बुद्ध्या पृथक्कृत्य जीव एव केवलः कृत्ल-] स्कन्ध इति व्यत्ययं व्याचक्षते, अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्लस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन ॥ ५१ ॥ से तमित्यादि निगमनम् । अथाकृनस्कन्धनिरूपणार्थमाह
से किं तं अकसिणखंधे ?, २ सो चेव दुपएसियाइखंधे जाव अणंतपएसिए खंधे, से तं अकसिणखंधे (सू० ५२)
अनुक्रम [५७]
~92~