SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) .................. मूलं [२१] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१] दीप अनुक्रम [२२] केशादिषु मृष्टं विद्यते येषां ते मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'तुप्पोह'त्ति तुपा-म्रक्षिता मदनेन वा कावेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्टाः, तथा मलपरीषहासहिष्णुतादूरीकृतत्वात् पाण्डुरोधौतः पट:-प्रावरणं येषां ते तथा, 'जिनानामनाज्ञया खच्छन्द विहत्य' तीर्थकराज्ञावाह्याः स्वखरुच्या विविध चेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुयेथे षष्ठीतिकृरखा आवश्यकाय-प्रतिक्रमणाकायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिक द्रव्यावश्यकम्, अत्र तु द्रव्यावश्यकत्वं भावशून्यत्त्वात् तत्फला-13 भावाचाप्रधानतयाऽवसेयं, नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावान्नोशब्दस्य चात्र देशप्रतिषेधवचनत्त्वादिति । अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेका प्रतिदिनं पुरःकर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै च गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन| भणति-पश्यत अहो ! कथमसौ भावमगोपयन अशठतया सर्व समालोचयति ?, सुखं हि आसेवना क्रियते, दुःखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धोधसी, तथा च तं प्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च-गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृतकृतायामपि न कश्चिद्दोषः, आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः साधुः कश्चिदायाता, तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्ता-वमित्यमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि-गिरिनगर ~64~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy