SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१५३] / गाथा ||१२४-|| ......... प्रत सूत्रांक [१५३] गाथा वर्तन्ते, यथा कटकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं वुमोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह-यद्येवमशुद्धं तदा परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेर्विद्यमानत्वात, सत्यं, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतो, घस्तुवृत्या तु द्विविध एव समवतारः, अत एवाह-अथवा ज्ञशरीरभव्यशरीरव्यतिरिक्तो| द्रव्यसमवतारो द्विविधा प्राप्तः, तद्यथा-आत्मसमवतारस्तदुभयसमवतारच, अशुद्धस्य परसमवतारस्य काप्यसम्भवात, न हि खात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्म-II वृत्तिविवक्षामात्रेणैव वैविध्यमुक्तमित्यभिहितं । 'चउसहिआ आयसमोआरेण मित्यादि सुयोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्व निर्णीता, ततश्चैषा लघुप्रमाणवादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशति-10 कायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायां षोडशिकाऽपि द्वात्रि-8 शत्पलमानायामष्टभागिकायाम् अष्टभागिकाऽपि चतुःषष्टिफ्लमानायां चतुर्भागिकायां चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायां एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समासो द्रव्यसमवतार:, अथ क्षेत्रसमवतारं विभणिषुराह-से किं । खेत्तसमोआरे'इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्व लघुप्रमाणस्य यथोत्तरं बृहक्षेत्रे समवतारो भावनीयः, RA-REAKRA ||१|| दीप अनुक्रम [३२२-३२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~504~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy