________________
आगम
(४५)
प्रत
सूत्रांक
[१५० ]
गाथा:
II--II
दीप अनुक्रम [३११
-३१७]
अनुयो०
मलधारीया
॥ २४२ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [ १५०] / गाथा ||११९-१२२||
देशराशिः एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिसैय राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वर्ग्यते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्गृहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तस्यं तु केवलिनो विदन्तीति भावः । सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तानन्तकं, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या ॥ अथ भावसङ्ख्यानिरूपणार्थमाह- 'से किं तं भावसंखा' इत्यादि, इह सङ्ख्या (खा) शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद् गुणप्रमाणे एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह-- 'जे इमे' इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः' आयुःप्राणादिमन्तः 'शङ्खगतिनामगोत्राणि' इति शङ्खगतिनामगोत्रशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रि यजात्यादारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततख शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एते भावशङ्खाः प्रोच्यन्ते, तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति--' से तं संखष्पमाणेति तत्समाप्ती चावसितं भावप्रमाणमित्याह - 'से तं भावप्पमाणे'ति,
वृत्तिः उपक्रमे प्रमाणद्वारं
~ 495~
| ॥ २४२ ॥
For ne&Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [४५], चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं