________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........... मूलं [१५०] / गाथा ||११९-१२२||
प्रत
सूत्रांक
[१५०]
गाथा:
||--||
निश्चयस्येहोत्पाद्यमानत्वादिति भावः । द्वितीयभङ्गे पल्योपमसागरोपमाणां योजनप्रमाणपल्यवालाग्रादिक-2 ल्पनामात्रेण प्ररूपितत्त्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकायायुमहत्त्वसाधनादिति, तृतीयभने 'परिजूरियपेरंत'मित्यादि गाथा, तत्र वसन्तसमये परिजीर्णपर्यन्तं खपरिपाकत एव प्रचलन्तं वृक्षास्पतद्-भ्रश्यत्पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव निक्षीरं वृक्षवियोगादित्वलक्षणव्यसनं प्राप्त कालप्राप्त-विनाशकालमाप्तमिति । तामेव गाथामाह-जह तुम्भे'इत्यादि, वृक्षात्पतता केनचिजीर्णपत्रेण किशलयानाश्रित्योक्तं, किंत?, उच्यते-शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेई' इति कथयति, किं तदित्याह-जह तुन्भे तह अम्हे'त्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा क्यमपि पूर्वमास्मेति क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चित कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धी गर्वबुद्धिः परासमृद्धौतु हेलामतिर्विधेया, अनित्यत्वात्सकलसमृद्धिसम्बन्धानामिति भावः । नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति,सत्यमित्याह-नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निवेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः, तदेवं 'जह तुम्भे तह अम्हें इत्यत्र किशलयपत्रावस्थया पाण्डपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावि
दीप अनुक्रम
[३११
-३१७]
braryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~476