SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं [१४६-१४७] / गाथा ||११५-११८|| ............... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४६-१४७] AGRORE गाथा: ||--|| दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधये, तद्गमकत्वेन विद्येत यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्ट-| 18 श्वार्थः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद्, अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयो-5 गात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं, तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इ-4 त्यादि, इदमुक्तं भवति-नालिकेरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एक कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद् , अन्याकारत्वे पुरुषत्वहानिप्रसङ्गाद्, गवादिवत्, बहुषुतु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारवानेव, पुरुषत्वाद् , अपराकारत्वे तद्धानिप्रसङ्गाद् , अश्वादिवदिति, एवं कार्षापणा|दिष्वपि वाच्छ, विशेषतो दृष्टमाह-'से जहानामए'इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् कचित् कश्चित्पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोषः समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्व मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्य-18 भिज्ञायमानत्वाद्, उभयाभिमतपुरुषवदिति, एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयनाह-तस्स समासओ तिविहं गहण'मित्यादि, तस्येति-सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्या दीप अनुक्रम -३०९] JisEdirational ~442~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy