SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः ) .............. मूल [११] / गाथा ||१...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [११] पना वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि |च राजादित्वेनेत्यल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्तते, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अब्राह-ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किश्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरा|वृत्तिदर्शनादू, सस्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पस्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवनादिराकार उपलभ्यते न तथा ना|मेन्द्रादी, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिश्रवणमात्राद्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्य-14 मिति ॥ ११॥ उक्तं स्थापनावश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रशं कारयति से किं तं दव्वावस्सयं?, २ दुविहं पण्णत्तं, तंजहा-आगमओ अ नोआगमओ अ (सू०१२) a अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-दव्वावस्सयं दुविहमित्यादि तत्र द्रवति-गच्छति ताँस्तान्पर्यायानिति द्रव्यं-विवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षतभावं वा दीप अनुक्रम [१२] अथ द्रव्य-आवश्यकस्य भेद-प्रभेदयुक्त विस्तृत-वर्णनं क्रियते ~38~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy