________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३४] / गाथा ||१०१-१०२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. ३०
Jan Ebertor
प्रत्येकं सप्तरज्जुप्रमाणो घनो जातः, एतच वैशाखस्थानस्थित पुरुषाकारं सर्वत्र वृत्तखरूपं च लोकं संस्थाप्य सर्व भावनीयं, सिद्धान्ते च यत्र कचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तर|ज्ज्वायामत्वात् प्रमाणाङ्गुलतोऽसङ्ख्ये प्रयोजन कोटिकोट्यायता एकप्रादेशिकी श्रेणिः, सा च तथैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या गुणितो लोकः, अयमपि सङ्ख्येयेन राशिना गुणितः सङ्ख्येया लोकाः, असङ्|ख्येयेन तु राशिना समाहतोऽसङ्ख्येया लोकाः, अनन्तेश्च लोकैरलोकः नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इति कथं तस्य प्रमाणता ?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् ' अंगुलविहस्थिरयणी'त्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति ॥ १३४ ॥ अथ कालप्रमाणमुच्यते
से किं तं कालप्पमाणे १, २ दुविहे पण्णत्ते, तंजहा-पएसनिष्कपणे अ विभागनिष्फण्णे अ (सू० १३५) ॥ से किं तं पएसणिकपणे १, २ एगसमयट्टिईए दुसमयदिईए तिसमट्टिईए जाव दससमयट्टिईए असंखिजसमयट्टिईए, से तं पएसनिष्कण्णे ( सू०
For P&Pase Cinly
~360~
www.w