SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूल [१३४] / गाथा ||९५-९८|| .................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] 4544 गाथा: ||--|| लाणं कयरे कयरोहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखिजगुणे, से तं आयंगुले।। गतार्थ, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेम स्वकीयखकीयकालसम्भवीन्यवटहदादीनि मीयन्त इति सण्टङ्कः, तत्र अवट:-कूपः तडाग:-खानितो जलाशयविशेषः वाप्या-चतुरस्रा जलाशयविशेषाः, पुष्करिण्यो-वृत्तास्ता एव पुष्करवन्त्यो बा दीर्घिकाः-सारिण्यः सारिण्य एवं वक्रा गुआलिका | भण्यन्ते सरः-स्वयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति-पतिभिर्व्यवस्थापितानि सरांसि सर:-* पतयः सरसरपंतियाउत्ति-यासु सरपतिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सरासरःपतयः बिलपतयः प्रतीताः माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति-क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसकुलान्युत्सवादी बहुजनपरिभोग्यान्युद्यानानि सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोष्टवी वा तानि सर्वेभ्योऽपि चनेभ्यः पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि बनखण्डानि, एकजातीयानामितरेषां वा तरूणां पङ्कयो वनराजयः, सन्तो भजन्त्येतामिति सभा-पुस्तकवाचनभूमिबहुजनसमागमस्थानं या अध उपरि च समखातरूपा खातिका अधः सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु - दीप अनुक्रम [२५७ -२७०] ~328~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy