SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३४] गाथा: II--II दीप अनुक्रम [२५७ -२७०] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [१३४ ] / गाथा ||९५-९८|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ॥ १५७ ॥ आत्माङ्गुलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां च सम्बन्धी अत्रात्मा गृश्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह - 'जे 'मित्यादि, ये भरतादयः प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेषः, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्माङ्गुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्व२ न्नाह - 'अप्पणो अंगुलेणं दुबालसेत्यादि, यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलैनवभिर्मुखैरष्टोत्तरं शतमङ्गलानां संपद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणी- जलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषा यथोक्तेः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह - 'माणुम्माण' गाहा, अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाः चक्रवर्त्यादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि शङ्खस्वस्तिकादीनि व्यञ्जनानि - मषीतिलकादीनि गुणाः- क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः ॥ अथात्मा For P&Pale Cy अनुयो० मलधा रीया ~ 325~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १५७ ॥
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy