________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३३] / गाथा ||९२...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
अनुयो० मलधारीया
॥१५२॥
गाथा:
||--||
तत्र द्रव्यप्रमाणं द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशा-एकद्विश्यायणवस्तैर्निष्पन्नं प्रदेश- वृत्तिः निष्पन्न, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिक: प्रदेशत्रयघटितस्त्रिप्रदेशिका, एवं उपक्रमे यावदनन्तः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिका, नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, तत- प्रमाणद्वार स्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवं, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात् , तथाहि-प्रस्थका-3 दिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति-प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीति, ततश्चैकद्विच्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्चादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टेव, करणसाधनपक्षे खेकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाण-11 मुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारतः, भावसाधनतायां तु प्रमितेः प्रमाणप्रमेयाधीनस्वादुपचारादेव प्रमा-14 णप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः । इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः खगतैरेव प्रदेशनिष्पन्नत्वात्। प्रदेशनिष्पन्नमुक्तं. द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्पः प्रकार इतियावत्तेन निष्पन्न विभागनिष्पन्नं, तथाहि-न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते, अपि तु 'दो असईओ पसईत्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधं, तद्यथा-मानम् उन्मानम् | अवमानं गणिमं प्रतिमानं, पुनरपि मानप्रमाणं द्विधा-धान्यमानप्रमाणं च रसमानप्रमाणं च, तत्र मानमेवर
दीप अनुक्रम [२५३-२५६]
~315